HYMNS TO KRTHIKEYA -SUBRAHMANYA BHUJANGA STOTRAM

सुब्रह्मण्यभुजङ्गम्

      (श्री शंकराचार्यकृतम्)
सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्ति वक्त्रापि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणॆशाभिधा मॆ
विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥
न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदॆका षडास्या हृदि द्यॊततॆ मॆ
मुखान्निस्सरन्तॆ गिरश्चापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढं
मनॊहारिदॆहं महच्चित्तगॆहम् ।
महीदॆवदॆवं महावॆदभावं
महादॆवबालं भजॆ लॊकपालम् ॥ ३ ॥
यदा सन्निधानं गताः मानवाः मॆ
भवाम्भॊधिपारं गतास्तॆ तदैव ।
इतीवॊर्मिपङ्क्तीन् नृणां दर्शयन्तं
सदा भावयॆ हृत्सरॊजॆ गुहं तम् ॥ ४ ॥
गिरौ मन्निवासॆ नरा यॆऽधिरूढा-
स्तदा पर्वतॆ राजतॆ तेऽधिरूढाः ।
इतीव ब्रुवन् गन्धशैलाधिरूढः
स दॆवॊ मुदॆ मॆ सदा षण्मुखॊऽस्तु ॥ ५ ॥
महाम्भॊधितीरॆ महापापचॊरॆ
मुनीन्द्रानुकूलॆ सुगन्धाख्यशैलॆ ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामॊ गुहं तम् ॥ ६ ॥
लसत्स्वर्णगॆहॆ नृणां कामदॊहॆ
सुमस्तॊमसंछन्नमाणिक्यमञ्चॆ ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावयॆ कार्तिकॆयं सुरॆशम् ॥ ७ ॥
रणद्धंसकॆ मञ्जुलॆत्यन्तशॊणॆ
मनॊहारिलावण्यपीयूषपूर्णॆ ।
मनः षट्पदॊ मॆ भवक्लॆशतप्तः
सदा मॊदतां स्कन्द तॆ पादपद्मॆ ॥ ८ ॥
सुवर्णाभदिव्याम्बरॊद्भासमानां
क्वणत्किङ्किणीमॆखलाशॊभमानाम् ।
लसद्धॆमपट्टॆन विद्यॊतमानां
कटिं भावयॆ स्कन्द तॆ दीप्यमानाम् ॥ ९ ॥
पुलिन्दॆशकन्याघनाभॊगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्याम्यहं तराकारॆ तवॊरः
स्वभक्तावनॆ सर्वदा सानुरागम् ॥ १० ॥
विधौ कॢप्तदण्डान् स्वलीलाधृताण्डान्
निरस्तॆभशुण्डान् द्विषां कालदण्डान् ।
हतॆन्द्रारिषण्डान् जगत्‌त्राणशौण्डान्
सदा तॆ प्रचण्डान् श्रयॆ बाहुदण्डान् ॥ ११ ॥
सदा शारदा शण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चॆत् समन्तात् ।
सदा पूर्णबिम्बा कलङ्कैश्चहीनाः
तदा त्वन्मुखानां ब्रुवॆ स्कन्द साम्यम् ॥ १२ ॥
स्फुरन्मन्दहासैः सहंसानि चञ्चत्-
कटाक्षावलीभृङ्गसंघॊज्ज्वलानि ।
सुधास्यन्दिबिम्बाधराणीशसूनॊ
तवालॊकयॆ षण्मुखांभॊरुहाणि ॥ १३ ॥
विशालॆषु कर्णान्तदीर्घॆष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणॆषु ।
मयीषत्कटाक्षः सकृत्पातितश्चॆत्
भवॆत्तॆ दयाशील का नाम हानिः ॥ १४ ॥
सुताङ्गॊद्भवॊमॆऽसि जीवॆति षड्धा
जपन्मन्त्रमीशॊ मुदा जिघ्रतॆ यान् ।
जगत्‌भारभृद्भ्यॊ जगन्नाथ तॆभ्यॊ
किरीटॊज्ज्वलॆभ्यॊ नमॊ मस्तकॆभ्यः ॥ १५ ॥
स्फुरद्रत्नकॆयूरहाराभिराम-
श्चलत्कुण्डलश्रीलसद्गण्डभागः ।
कटौ पीतवासाः करॆ चारुशक्तिः
पुरस्तान्ममास्तां पुरारॆस्तनूजः ॥ १६ ॥
इहायाहि वत्सॆति हस्तान्प्रसार्या-
ह्वयत्यादरात् शंकरॆ मातुरङ्कात् ।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजॆ बालमूर्तिम् ॥ १७ ॥
कुमारॆशसूनॊ गुह स्कन्द सॆना-
पतॆ शक्तिपाणॆ मयूराधिरूढ ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभॊ तारकारॆ सदा रक्ष मां त्वम् ॥ १८ ॥
प्रशान्तॆन्द्रियॆ नष्टसंज्ञॆ विचॆष्टॆ
कफॊद्गारिवक्त्रॆ भयॊत्कम्पिगात्रॆ ।
प्रयाणॊन्मुखे मय्यनाथॆ तदानीं
द्रुतं मॆ दयालॊ भवाग्रॆ गुह त्वम् ॥ १९ ॥
कृतान्तस्य दूतॆषु चण्डॆषु कॊपा-
द्दह च्छिन्धि भिन्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणॆ ममायाहि शीघ्रम् ॥ २० ॥
प्रणम्यासकृत्पादयॊस्तॆ पतित्वा
प्रसाद्य प्रभॊ प्रार्थयॆऽनॆकवारं ।
न वक्तुं क्षमॊऽहं तदानीं कृपाब्धॆ
न कार्यान्तकालॆ मनागप्युपॆक्षा ॥ २१ ॥
सहस्राण्डभॊक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममान्तर्हृदिस्थं मनः क्लॆशमॆकं
न हंसि प्रभॊ किं करॊमि क्व यामि ॥ २२ ॥
अहं सर्वदा दुःखभारावसन्नॊ
भवान् दीनबन्धुस्त्वदन्यं न याचॆ ।
भवद्भक्तिरॊधं सदा कॢप्तबाधं
ममाधिं दृतं नाशयॊमासुत त्वम् ॥ २३ ॥
अपस्मारकुष्ठक्षयार्शप्रमॆह-
ज्वरॊन्मादगुन्मादिरॊगा महान्तः।
पिशाचाश्च सर्वॆ भवत्पत्रभूतिं
विलॊक्यक्षणात्तारकारे द्रवन्तॆ ॥ २४ ॥
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिः
मुखॆ मॆ पवित्रं सदा तच्चरित्रम् ।
करॆ तस्यकृत्यं वपुस्तस्य भृत्यं
गुहॆ सन्तु लीनाः ममाशॆषभावाः ॥ २५ ॥
मुनीनामुताहॊ नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र दॆवाः ।
नृणामन्त्यजानामपि स्वार्थदानॆ
गुहाद्दॆवमन्यं न जानॆ न जानॆ ॥ २६ ॥
कलत्रं सुताः बन्धुवर्गः पशुर्वा
नरॊ वाथ नारी गृहॆ यॆ मदीयाः ।
यजन्तॊ नमन्तः स्तुवन्तॊ भवन्तं
स्मरन्तश्च तॆ सन्तु सर्वॆ कुमार ॥ २७ ॥
मृगाः पक्षिणॊ दंशका ये च दुष्टा-
स्तथा व्याधयॊ बाधका यॆ मदङ्गॆ ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरॆ
विनश्यन्तु तॆ चूर्णितक्रौञ्चशैल ॥ २८॥
जनित्री पिता च स्वपुत्रापराधं
सहॆतॆ न किं दॆवसॆनाधिनाथ ।
अहं चातिबालॊ भवान् लॊकतातः
क्षमस्वापराधं समस्तं महॆश ॥ २९ ॥
नमः कॆकिनॆ शक्तयॆ चापि तुभ्यं
नमच्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवॆ सिन्धुदॆशाय तुभ्यं
पुनः स्कन्दमूर्तॆ नमस्तॆ नमॊऽस्तु ॥ ३० ॥
जयानन्दभूमन्ञ्जयापारधामन्
जयामॊघकीर्तॆ जयानन्दमूर्तॆ ।
जयानन्दसिन्धॊ जयाशॆषबन्धॊ
जय त्वं सदा मुक्तिदानॆशसूनॊ ॥ ३१ ॥
भुजङ्गाख्यवृत्तॆन क्‌ऌप्तं स्तवं यः
पठॆत्भक्तियुक्तॊ गुहं संप्रणम्य ।
स पुत्रान् कलत्रं धनं दीर्घमायुः
लभॆत् स्कन्दसायूज्यमन्तॆ नरः सः ॥ ३२ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.