HYMNS TO SRIMATA -TRIPURASUNDARI VEDAPADASTOTRAM

त्रिपुरसुन्दरीवेदपादस्तोत्रम्

 

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।

यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥

 

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।

सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

 

अकारादिक्षकारान्तवर्णावयवशालिनी ।

वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥

 

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।

वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥

 

उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।

सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥

 

मन्दा निन्दालोलुपाऽहं स्वभावात्

एतत्स्तोत्रं पूर्यते किं मयेति ।

मा ते भीतिर्हे मते त्वादृशानाम्

एषा नेत्री राधसा सूनृतानाम् ॥६॥

 

तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।

सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥

 

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।

अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥

 

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।

द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥

 

तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।

मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥

 

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।

महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥

 

तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः)

विनिर्मितं रोपितरत्नशृङ्गम् ।

भजे भवानीभवनावतंसम्

आदित्यवर्णं तमसः परस्तात् ॥१२॥

 

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।

तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥

 

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।

तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥

 

नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।

विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥

 

पर्यङ्कतल्पोपरि दर्शनीयं

सबाणचापाङ्कुशपाशपाणिम् ।

अशेषभूषारमणीयमीडे

त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥

 

जटारुणं चन्द्रकलाललामम्

उद्वेललावण्यकलाभिरामम् ।

कामेश्वरं कामशरासनाङ्कं

समस्तसाक्षिं तमसः परस्तात् ॥१७॥

 

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।

सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥

 

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।

नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥

 

शिवे नमन्निर्जरकुञ्जरासुर-

प्रतोलिकामौलिमरीचिवीचिभिः ।

इदं तव क्षालनजातसौभगं

चरणं नो लोके सुधितां दधातु ॥२०॥

 

कल्पस्यादौ कारणेशानपि त्रीन्

स्रष्टुं देवि त्रीन्गुणानादधानाम् ।

सेवे नित्यं श्रेयसे भूयसे त्वाम्

अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥

 

केशोद्भूतैरद्भुतामोदपूरैः

आशाबृन्दं सान्द्रमापूरयन्तीम् ।

त्वामानम्य त्वत्प्रसादात्स्वयंभूः

अस्मान्मायी सृजते विश्वमेतत् ॥२२॥

 

अर्धोन्मीलद्यौवनोद्दामदर्पां

दिव्याकल्पैरर्पयन्तीं मयूखान् ।

देवि ध्यात्वा त्वां पुरा कैटभारिः

विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥

 

कह्लारश्रीमञ्जरीपुञ्जरीतिं

धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।

मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्

इन्द्रो राजा जगतो य ईशे ॥२४॥

 

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।

जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥

 

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।

भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥

 

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा

वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।

सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां

श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥

 

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।

कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥

 

शान्तो दान्तो देशिकेन्द्रं प्रणम्य

तस्यादेशात्तारकं मन्त्रतत्त्वम् ।

जानीते चेदम्ब धन्यः समानं

नातः परं वेदितव्यं हि किञ्चित् ॥२९॥

 

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।

त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥

 

परागमद्रीन्द्रसुते तवाङ्घ्रि-

सरोजयोरम्ब दधामि मूर्ध्ना ।

अलंकृतं वेद(/देव)वधूशिरोभि-

र्यतो जातो भुवनानि विश्वा ॥३१॥

 

दुष्टान् दैत्यान् हन्तुकामां महर्षीन्

शिष्टानन्यान् पातुकामां कराब्जैः ।

अष्टाभिस्त्वां सायुधैर्भासमानां

दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥

 

देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।

कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥

 

नाहं मन्ये दैवतं मान्यमन्यत्

त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।

ये ध्यातारो भक्तिसंशुद्धचित्ताः

परामृतात् परिमुच्यन्ति सर्वे ॥३४॥

 

कुर्वाणोऽपि दुरारम्भान्
तव नामानि शांभवि ।

प्रजपन्नेति मायान्तम्

अतिमृत्युं तराम्यहम् ॥३५॥

 

कल्याणि त्वं कुन्दहासप्रकाशैः

अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।

हन्तास्माकं ध्यायतां त्वत्पदाब्जम्

उच्चतिष्ठ महते सौभगाय ॥३६॥

 

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।

अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥

 

मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।

भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥

 

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं

पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।

बन्धूकाभां भावयामि त्रिनेत्रां

तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥

 

भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।

भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥

 

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।

कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥

 

नो वा यागैर्नैव पूर्तादिकृत्यैः

नो वा जप्यैर्नो महद्भिस्तपोभिः ।

नो वा योगैः क्लेशकृद्भिः सुमेधा

निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥

 

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।

सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥

 

बन्धूकाभैर्भानुभिर्भासयन्ती

विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।

लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद्

आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥

 

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।

त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥

 

वाग्देवीति त्वां वदन्त्यम्ब केचित्

लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।

शश्वन्मातः प्रत्यगद्वैतरूपां

शंसन्ति केचिन्निविदो जनाः ॥४६॥

 

ललितेति सुधापूरमाधुरीचोरमम्बिके ।

तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥

 

ये संपन्नाः साधनैस्तैश्चतुर्भिः

शुश्रूषाभिर्देशिकं प्रीणयन्ति ।

सम्यग् विद्वान् शुद्धसत्त्वान्तराणां

तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

 

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।

तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥

 

जगत्पवित्रि मामिकाम्

अपाहराशु दुर्ज्जराम् ।

प्रसीद मे दयाधुने(/नि)

प्रशस्तिमम्ब नस्कृधि ॥५०॥

 

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।

मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥

 

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।

अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥

 

रे रे चित्त त्वं वृथा शोकसिन्धौ

मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।

देव्याः पादौ पूजयैकाक्षरेण

तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥

 

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।

ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥

 

तामेवाद्यां ब्रह्मविद्यामुपासे

मूर्तैर्वेदैः स्तूयमानां भवानीम् ।

हन्त स्वात्मत्त्वेन यां मुक्तिकामो

मत्वा धीरो हर्षशोकौ जहाति ॥५५॥

 

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।

शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥

 

रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः

चक्रेशानीं सर्वदोपचारयन्त्यः ।

योगिन्योऽन्याः शक्तयश्चाणिमाद्याः

यूयं पात स्वस्तिभिः सदा नः ॥५७॥

 

दरिद्रं मां विजानीहि

सर्वज्ञासि यतः शिवे ।

दूरीकृत्याशु दुरितम्

अथ नो वर्धया रयिम् ॥५८॥

 

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।

कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥

 

मूलाधारादूर्ध्वमन्तश्चरन्तीं

भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।

पश्यन्तस्त्वां ये च तृप्तिं लभन्ते

तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥

 

मह्यं द्रुह्यन्ति ये मातः

त्वद्ध्यानासक्तचेतसे ।

तानंब सायकैरेभिः

अव ब्रह्मद्विषो जहि ॥६१॥

 

त्वद्भक्तानामम्ब शान्तैषणानां

ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।

पापीयानप्यावृतः स्वर्वधूभिः

शोकातिगो मोदते स्वर्गलोके ॥६२॥

 

सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।

भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥

 

विद्वन्मुख्यैः विद्रुमाभं विशाल-

श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।

चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद्

विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥

 

न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।

मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥

 

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां

हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।

यामाश्लिष्यन्मोदते देवदेवः

सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

 

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।

गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥

 

का मे भीतिः का क्षतिः किं दुरापं

कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।

तत्त्वातीतामच्युतानन्ददात्रीं

देवीमहं निर्ऋतिं वन्दमानः ॥६८॥

 

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।

ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥

 

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।

तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥

 

आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।

आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥

 

कुर्वे गर्वेणापचारानपारान्

यद्यप्यम्ब त्वत्पदाब्जं तथापि ।

मन्ये धन्ये देवि विद्यावलम्बं

मातेव पुत्रं बिभृतास्वेनम् ॥७२॥

 

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।

कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥

 

चक्रं सेवे तावकं सर्वसिद्ध्यै

श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।

नित्या मुद्रा शक्तयश्चाङ्गदेव्यो

यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥

 

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।

सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥

 

विद्युद्वल्लीकन्दलीं कल्पयन्तीं

मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।

ध्यायन् हि त्वां जायते सार्वभौमो

विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥

 

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।

अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥

 

सिन्दूराभैस्सुन्दरैरंशुबृन्दैः

लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।

हेरम्बाम्ब त्वां हृदा लंबते यः

तस्मै विशः स्वयमेवानमन्ते ॥७८॥

 

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।

चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥

 

कण्ठात्कुण्डलिनीं नीत्वा

सहस्रारं शिवे तव ।

न पुनर्जायते गर्भे

सुमेधा अमृतोक्षितः ॥८०॥

 

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।

पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥

 

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।

स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥

 

कदा वसुदलोपेते त्रिकोणनवकान्विते ।

आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥

 

ह्रीमित्येकं तावकं वाचकार्णं

यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।

को वायं स्यात्कामकामस्त्रिलोक्यां

सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥

 

नाकस्त्रीणां किन्नरीणां नृपाणाम्

अप्याकर्षि चेतसा चिन्तनीयम् ।

त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं

द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥

 

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।

भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥

 

त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।

यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥

 

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद्

वाचा याचे नाहमम्ब त्वदन्यम् ।

तस्मादस्मद्वाञ्छितं पूरयैतद्

उषासानक्ता सुदुघेव धेनुः ॥८८॥

 

यो वा यद्यत्कामनाकृष्टचित्तः

स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।

कल्याणानामालयः कालयोगात्

तं तं लोकं जयते तांश्च कामान् ॥८९॥

 

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।

तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥

 

हस्ताम्भोजप्रोल्लसच्चामराभ्यां

श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।

श्रीसाम्राज्ञि त्वां सदालोकयेयं

सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥

 

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः

स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।

त्वद्रूपं हि स्वानुभूत्यैकवेद्यं

न चक्षुषा गृह्यते नापि वाचा ॥९२॥

 

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।

देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥

 

यस्ते राकाचन्द्रबिम्बासनस्थां

पीयूषाब्धिं कल्पयन्तीं मयूखैः ।

मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे

न तस्य रोगो न जरा न मृत्युः ॥९४ ॥

 

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते

मौलिश्रेण्या भूभुजस्तं नमन्ति ।

यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?)

तं धीरासः कवय उन्नयन्ति ॥९५॥

 

वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः

दुर्गाकालीभैरवीशक्तिसङ्घैः ।

यन्त्रेशि त्वं वर्तसे स्तूयमाना

न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥

 

भूत्यै भवानि त्वां वन्दे

सुराः शतमखादयः ।

त्वामानम्य समृद्धाः स्युः

आ ये धामानि दिव्यानि ॥९७॥

 

पुष्पवत्फुल्लताटङ्कां

प्रातरादित्यपाटलाम् ।

यस्त्वामन्तः स्मरत्यम्ब

तस्य देवा असन्वशे ॥९८॥

 

वश्ये विद्रुमसङ्काशां

विद्यायां विशदप्रभाम् ।

त्वामम्ब भावयेद्भूत्यै

सुवर्णां हेममालिनीम् ॥९९॥

 

वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां

भूषाबृन्दैरिन्दुरेखावतंसाम् ।

यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः

तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥

 

नवनीपवनीवासलालसोत्तम(/र)मानसे ।

शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥

 

भक्त्याऽभक्त्या वापि पद्यावसान-

श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।

तस्य क्षिप्रं त्वत्प्रसादेन मातः

सत्याः सन्तु यजमानस्य कामाः ॥१०२॥

 

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।

आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥

 

माधुरीसौरभावासचापसायकधारिणीम् ।

देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥

 

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।

अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥

 

यः पठति स्तुतिमेतां

विद्यावन्तं तमम्ब धनवन्तम् ।

कुरु देवि यशस्वन्तं

वर्चस्वन्तं मनुष्येषु ॥१०६॥

 

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।

तेभ्यो देहि श्रियं विद्यामुद्वर्च‍म् उत्तनूबलम् ॥१०७॥

 

त्वामेवाहं स्तौमि नित्यं प्रणौमि

श्रीविद्येशां वच्मि सञ्चिन्तयामि ।

अध्यास्ते या विश्वमाता विराजो

हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥

 

शङ्करेण रचितं स्तवोत्तमं

यः पठेज्जगति भक्तिमान्नरः ।

तस्य सिद्धिरतुला भवेद्ध्रुवा

सुन्दरी च सततं प्रसीदति ॥१०९॥

 

यत्रैव यत्रैव मनो मदीयं

तत्रैव तत्रैव तव स्वरूपम् ।

यत्रैव यत्रैव शिरो मदीयं

तत्रैव तत्रैव पदद्वयं ते ॥११०॥

 

॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥

Author Socials Follow me