३. श्रीसुब्रह्मण्याष्टकम् -१
हॆ स्वामिनाथ करुणाकर दीनबन्धॊ
श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ ।
श्रीशादिदॆवगणपूजितपादपद्म
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥
दॆवादिदॆवसुत दॆवगणाधिनाथ
दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ २ ॥
नित्यान्नदाननिरताखिलरॊगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ३ ॥
क्रौञ्चासुरॆन्द्रपरिखण्डनशक्तिशूल
चापादिशस्त्रपरिमण्डितदिव्यपाणॆ ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ४ ॥
दॆवादिदॆवरथमण्डलमध्यमॆत्य
दॆवॆन्द्रपीठनगरं धृतचापहस्त ।
शूरं निहत्य सुरकॊटिभिरीड्यमान
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ५ ॥
हीरादिरत्नवरयुक्तकिरीटहार
कॆयूरकुण्डललसत् कवचाभिराम ।
हॆ वीर तारकजयामरबृन्दवन्द्य
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ६ ॥
पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः
पञ्चामृतैः प्रमुदितॆन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त मघवत्तनयासनाथ
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ७ ॥
श्रीकार्तिकॆयकरुणामृतपूर्णदृष्ट्या
कामादिरॊगकलुषीकृतदुष्टचित्तं । ।
सिक्त्वा तु मामव कलानिधिकॊटिकान्त
वल्लीश नाथ मम दॆहि करावलम्बम् ॥ ८ ॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः ।
तॆ सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥ ९ ॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठॆत ।
कॊटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥ १० ॥
***
I heard this sung by umA mohan. Now I'm reading it here. Nice. First time.
Who is poet?