HYMNS TO KRISHNA – BY BHISHMA (FROM SRIMADBHAGAVATA)

भीष्मकृता भगवत्स्तुतिः
   
(श्रीमद्भागवतान्तर्गतम्)
भीष्म उवाच
 इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाहः
॥ १ ॥
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तुमेऽनवद्या
॥ २ ॥
युधि तुरगरजोविधूम्रविष्वक्-
कचलुलितश्रमवार्यलङ्कृतास्ये
मम निशितशरैर्विभिध्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण
आत्मा ॥ ३ ॥
सपदि सखि वचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु
॥ ४ ॥
व्यवहितपृतनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या
कुमतिमहरदात्मविद्यया यः
चरणरतिः परमस्य तस्य मेऽस्तु
॥ ५ ॥
स्वनिगममपहाय मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो रथस्थः
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीयः
॥ ६ ॥
शितविशिखहतो विशीर्णदंशः
क्षतजपरिप्लुत आततायिनो मे
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्दः
॥ ७ ॥
ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमानाः
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन्किल यस्य गोपवध्वः
॥ ८ ॥
मुनिगणनृपवर्यसङ्कुलेऽन्तः-
सदसि युधिष्ठिरराजसूय एषाम्
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥
९ ॥
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम्
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूत भेदमोहः
॥ १० ॥   
             ***

Click here for sri Ramachander’s English translation

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.