HYMNS TO KRISHNA – GOPIKA GEETAM (FROM SRIMADBHAGAVATAM)

 गोपिकागीतम्
    
(श्रीमद्भागवतान्तर्गतम्)
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि
दयित दृश्यतां दिक्षु तावकाः
त्वयि धृतासवः त्वां विचिन्वते
॥ १ ॥
शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्क दासिकाः ॥
२ ॥
वरद निघ्नतो नेह किं वधः
विषजलाप्ययात् व्यालराक्षसात्
वर्षमारुतात् वैद्युतानलात्
वृषमयात्मजात् विश्वतो भयात्
ऋषभ ते वयं रक्षिताः मुहुः
॥ ३ ॥
न खलु गोपिकानन्दनो भवान्
अखिल देहिनां अन्तरात्मदृक्
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले
॥ ४ ॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदम्
शिरसि धेहि नः श्रीकरग्रहम्
॥ ५ ॥
व्रजजनार्तिहन् वीर योषिताम्
निजजनस्मय ध्वंसनस्मित ।
भज सखे भवत् किङ्करीः स्म नो
जलरुहाननं चारु दर्शय ॥ ६ ॥
प्रणतदेहिनां पापकर्शनम्
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजम्
कृणु कुचेषु नः कृन्धि हृच्छयम्
॥ ७ ॥
मधुरया गिरा वल्गु वाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमाः वीर मुह्यतीः
अधरसीधुनाऽऽप्यायस्व नः ॥ ८
तव कथामृतं तप्तजीवनम्
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततम्
भुवि गृणन्ति ये भूरिदा जनाः
॥ ९ ॥
प्रहसितं प्रिय प्रेम वीक्षणम्
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृहः
कुहक नो मनः क्षोभयन्ति हि
॥ १० ॥
चलसि यद्व्रजात् चारयन् पशून्
नलिन सुन्दरं नाथ ते पदं ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥
११ ॥
दिनपरिक्षये नीलकुन्तलैः
वनरुहाननं बिभ्रदावृतम्  ।
घनरजस्वलं दर्शयन् मुहुः
मनसि नः स्मरं वीर यच्छसि ॥
१२ ॥
प्रणतकामदं पद्मजार्चितम्
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते
रमण नः स्तनेष्वर्पयाधिहन्
॥ १३ ॥

सुरतवर्धनं शोकनाशनम्
स्वरितवेणुना सुष्ठुचुम्बितम्
इतररागविस्मारणं नृणाम्
वितर वीर नस्तेऽधरामृतम् ॥
१४ ॥
अटति यत् भवान् अह्नि काननम्
त्रुटिर्युगायते त्वामपश्यताम्
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृत् दृशाम्
॥ १५ ॥
पतिसुतान्वय भ्रातृबान्धवान्
अतिविलङ्घ्य तेऽन्त्यच्युतागताः
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि
॥ १६ ॥
रहसि संविदं हृच्छयोदयम्
प्रहसिताननं प्रेमवीक्षणम्
बृहदुरः श्रियो वीक्ष्य धाम
ते
मुहुरतिस्पृहा मुह्यते मनः
॥ १७ ॥
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम्
त्यज मनाक् च नः त्वत्स्पृहात्मनाम्
स्वजनहृत्रुजां यन्निषूदनम्
॥ १८ ॥
यस्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु
तेनाटवीमटसि तत् व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां
नः ॥ १९ ॥
             ***

Author Socials Follow me