HYMNS TO KRISHNA – NANDAKUMARASHTAKAM

 श्रीनन्दकुमाराष्टकम्
          
(वल्लभाचार्यकृतं)
 
सुन्दरगोपालं उरवनमालं नयनविशालं
दुःखहरम्
वृन्दावनचन्द्रमानन्दकन्दं
परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं
प्रीतिकरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ १ ॥
सुन्दरवारिजवदनं निर्जितमदनं
आनन्दसदनं मुकुटधरम्
गुञ्जाकृतिहारं विपिनविहारं
परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत‌उपवीतं करनवनीतं
विबुधवरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ २ ॥
शोभितमुखधूलं यमुनाकूलं निपट‌अतूलं सुखदतरम्
मुखमण्डितरेणुं चारितधेनुं
वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि‌अमलं तिमिरहरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ३ ॥
शिरमुकुटसुदेशं कुञ्चितकेशं
नटवरवेषं कामवरम्
मायाकृतमनुजं हलधर‌अनुजं प्रतिहतदनुजं
भारहरम् ।
वल्लभव्रज्पालं सुभगसुचालं
हितमनुकालं भाववरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ४ ॥
इन्दीवरभासं प्रकटसुरासं कुसुमविकासं
वंशिधरम्
हृतमन्मथमानं रूपनिधानं कृतकलगानं
चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं
विविधविलासं केलिकरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ५ ॥
परमप्रवीणं पालितदीनं भक्ताधीनं
कर्मकरम्
मोहनमतिधीरं फणिबलवीरं हतपरवीरं
तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं
शैलधरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ६ ॥
जलधरद्युति‌अङ्गं ललितत्रिभङ्गं
बहुकृतरङ्गं रसिकवरम्
गोकुलपरिवारं मदनाकारं कुञ्जविहारं
गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं
कृत‌आनन्दं भ्रान्तिहरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ७ ॥
वन्दितयुगचरणं पावनकरणं जगदुद्धरणं
विमलधरम्
कालियशिरगमनं कृतफणिनमनं घातितयमनं
मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणम्
अशरणशरणम् मुक्तिकरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ८ ॥
                 ***
 

click here for sri Ramachander’s English translation

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.