HYMNS TO SHIVA – CHIDAMBARESWARA STOTRAM

श्रीचिदम्बरेश्वरस्तोत्रम्

कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतीवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ १ ॥

 

वाचामतीतं फणिभूषणाङ्गं
गणेशतातं धनदस्य मित्रम् ।
कन्दर्पनाशं कमलोत्पलाक्षं
चिदम्बरेशं हृदि भावयामि ॥ २ ॥

 

रमेशवन्द्यं रजताद्रिनाथं
श्रीवामदेवं भवदुःखनाशम् ।
रक्षाकरं राक्षसपीडितानां
चिदम्बरेशं हृदि भावयामि ॥ ३ ॥

 

देवादि(/धि)देवं जगदेकनाथं
देवेशवन्द्यं शशिखण्डचूडम् ।
गौरीसमेतं कृतविघ्नदक्षं
चिदम्बरेशं हृदि भावयामि ॥ ४ ॥

 

वेदान्तवेद्यं सुरवैरिविघ्नं
शुभप्रदं भक्तिमदन्तराणाम् ।
कालान्तकं श्रीकरुणाकटाक्षं
चिदम्बरेशं हृदि भावयामि ॥ ५ ॥

 

हेमाद्रिचापं त्रिगुणात्मभावं
गुहात्मजं व्याघ्रपुरीशमाद्यम् ।
श्मशानवासं वृषवाहनस्थं
चिदम्बरेशं हृदि भावयामि ॥ ६ ॥

 

आद्यन्तशून्यं त्रिपुरारिमीशं
नन्दीशमुख्यस्तुतवैभवाढ्यम् ।
समस्तदेवैः परिपूजिताङ्घ्रिं
चिदम्बरेशं हृदि भावयामि ॥ ७ ॥

 

तमेव भान्तं ह्यनुभाति सर्वम्
अनेकरूपं परमार्थमेकम् ।
पिनाकपाणिं भवनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ८ ॥

 

विश्वेश्वरं नित्यमनन्तमाद्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ९ ॥

 

विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं पञ्चमुखं प्रसन्नम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ १० ॥

 

कर्पूरगात्रं कमनीयनेत्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पगात्रं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥ ११ ॥

 

विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं हरिदम्बरेशम् ।
कुबेरमित्रं जगतः पवित्रं
चिदम्बरेशं हृदि भावयामि ॥ १२ ॥

 

कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्द्धदेहम् ।
कपर्दिनं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥ १३ ॥

 

कल्पान्तकालाहितचण्डनृत्तं
समस्तवेदान्तवचोनिगूढम् ।
अयुग्मनेत्रं गिरिजासहायं
चिदम्बरेशं हृदि भावयामि ॥ १४ ॥

 

दिगम्बरं शङ्खसिताल्पहासं
कपालिनं शूलिनमप्रमेयम् ।
नगात्मजावक्त्रपयोजसूर्यं
चिदम्बरेशं हृदि भावयामि ॥ १५ ॥

 

सदाशिवं सत्पुरुषैरनेकैः
सदार्चितं सामशिरस्सु गीतम् ।
वैय्याघ्रचर्माम्बरमुग्रमीशं
चिदम्बरेशं हृदि भावयामि ॥ १६ ॥

 

चिदम्बरस्य स्तवनं पठेद्यः
प्रदोषकालेषु पुमान् स धन्यः ।
भोगानशेषाननुभूय भूयः
सायुज्यमप्येति चिदम्बरस्य ॥ १७ ॥

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO SHIVA – CHIDAMBARESWARA STOTRAM

  1. Pearlgurl says:

    Who is the composer of this Stotram?

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.