HYMNS TO SHIVA – DWADASA JYOTIRLINGA STOTRAM

द्वादशज्योतिर्लिंगस्तोत्रम्
   
(श्री शंकराचार्यकृतम्)
सौराष्ट्रदेशे विशदेऽतिरम्ये
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं
तं सोमनाथं
शरणं प्रपद्ये ॥
१ ॥
श्रीशैलशृङ्गे
विबुधादिसङ्गे
तुलाद्रितुङ्गेऽपि मुदा
वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं
नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च
सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय
सदैव मान्धातृपुरे
वसन्तं
ओंकारमीशं शिवमेकमीडे
॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं
गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्री वैद्यनाथं
तमहं नमामि ॥ ५
यं डाकिनीशाकिनिकासमाजे
निषेव्यमाणं पिशिताशनैश्च
सदैव भीमादिपदप्रसिद्धं
तं शंकरं
भक्तहितं नमामि ॥ ६
सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं
विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्चितं
तं
रामेश्वराख्यं नियतं
नमामि ॥ ७ ॥
याम्ये सदंगे
नगरेऽतिरम्ये
विभूषिताङ्गं विबुधैश्च
भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्री नागनाथं
शरणं प्रपद्ये ॥
८ ॥
सानन्दमानन्दवने वसन्तं
आनन्दकन्दं हतपापवृन्दम्
वाराणसीनाथमनाथनाथं
श्री विश्वनाथं
शरणं प्रपद्ये ॥
९ ॥
सह्याद्रिशीर्षे विमले
वसन्तं
गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात् पातकमाशु
नाशं
प्रयाति तं
त्र्यम्बकमीशमीडे ॥ १०
महाद्रिपार्श्वे च
तटे रमन्तं
संपूज्यमानं सततं
मुनीन्द्रैः ।
सुरासुरैः यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे
॥ ११ ॥
इलापुरे रम्यविशालकेऽस्मिन्
समुल्लसन्तं च
जगद्वरेण्यं ।
वन्दे महोदारतरस्वभावं
धृष्णेश्वराख्यं शरणं
प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां
शिवात्मनां प्रोक्तमिदं
क्रमेण ।
स्तोत्रं पठित्वा
मनुजोऽतिभक्त्या
फलं तदालोक्य
निजं भजेच्च ॥ १३

 . 
         ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.