NIRVANADASAKA STOTRAM

निर्वाणदशकस्तोत्रम्
न भूमिर्न
तोयं न तेजो न
वायुः
न खं
नेन्द्रियं वा न तेषां
समूहः ।
अनैकान्तिकत्वात् सुषुप्त्येकसिद्धः
तदेकोऽवशिष्टः शिवः
केवलोऽहम् ॥ १ ॥
न वर्णा
न वर्णाश्रमाचारधर्माः
न म्स्
धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहानात्
तदेकोऽवशिष्टः शिवः
केवलोऽहम्  ॥ २
न माता
पिता वा न देवा
न लोकाः
न वेदा
न यज्ञा न तीर्थं
ब्रुवन्ति ।
सुषुप्तौ निरस्तादिशून्यात्मकत्वात्
तदेकोऽवशिष्टः शिवः
केवलोऽहम् ॥ ३ ॥
न सांख्यं
न शैवं न तत्
पाञ्चरात्रं
न जैनं
न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
तदेकोऽवशिष्टः शिवः
केवलोऽहम्  ॥ ४
न शुक्लं
न कृष्णं न रक्तं
न पीतं
न पीनं
न कुब्जं न ह्रस्वं
न दीर्घम् ।
न रूपं
तथा ज्योतिराकारकत्वात्
तदेकोऽवशिष्टः शिवः
केवलोऽहम्  ॥ ५
न जाग्रन्न
मे स्वप्नको वा
सुषुप्तिः
न विश्वो
न वा तैजसः प्राज्ञको
वा ।
अविद्यात्मकत्वात् त्रयाणां
तुरीयं
तदेकोऽवशिष्टः शिवः
केवलोऽहम्  ॥ ६
न शास्ता
न शास्त्रं न शिष्यो
न शिक्षा
न च
त्वं न चाहं न
चायं प्रपञ्चः ।
स्वरूपावबोधाद्विकल्पासहिष्णुः
तदेकोऽवशिष्टः शिवः
केवलोऽहम् ॥ ७ ॥
न चोर्ध्वं
न चाधो न चान्तर्न
बाह्यं
न मध्यं
न तिर्यङ् न पूर्वापरादिक्
वियद्व्यापकत्वात् अखण्डैकरूपः
तदेकोऽवशिष्टः शिवः
केवलोऽहम् ॥ ८ ॥
अपि व्यापकत्वादितत्वप्रयोगात्
स्वतस्सिद्धभावादनन्याश्रयत्वात् ।
जगत् तुच्छमेतत्
समस्तं तदन्यः
तदेकोऽवशिष्टः शिवः
केवलोऽहम् ॥ ९ ॥
न चैकं
तदन्यत् द्वितीयं कुतः
स्यात्
न चाकेवलत्वं
न वा केवलत्वं ।
न शून्यं
न चाशून्यमद्वैतकत्वात्

कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १०
॥  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.