शिवस्तोत्रम्
( स्वामिविवेकानन्दकृतम् )
निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥
निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥
वहति विपुलवातः पूर्वसंस्काररूपः
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥
जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपो यत्र चैको यथार्थः ।
शमितविकृतिवाते यत्र नान्तर्बहिश्च
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥
गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यो निष्कलो ध्यायमानः
प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥
दुरितदलनदक्षं दक्षजादत्तदोषं
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतम्
नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥