HYMNS TO HANUMAN – VEERAVIMSATI KAVYAM HANUMATSTOTRAM

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्
       
(उमापति कविविरचितम्)
लांगूलमृष्टवियदम्बुधिमध्यमार्ग-
मुत्प्लुत्य यान्तममरेन्द्रमुदो
निदानम् ।
आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं
द्राङ्मैथिलीनयननन्दनमद्य वन्दे
॥ १ ॥
मध्येनिशाचरमहाभयदुर्विषह्यं
घोराद्भुतव्रतमिदं यददश्चचार
पत्ये तदस्य बहुधापरिणामदूतं
सीतापुरस्कृततनुं हनुमन्तमीडे
॥ २ ॥
यः पादपङ्कजयुगं रघुनाथपत्न्या
नैराश्यरूषितविरक्तमपि स्वरागैः
प्रागेव रागि विदधे बहु वन्दमानो
वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै
॥ ३ ॥
ताञ्जानकीविरहवेदनहेतुभूतान्
द्रागाकलय्य सदशोकवनीयवृक्षान्
लङ्कालकानिव घनानुदपाटयद्य-
स्तं हेमसुन्दरकपिं प्रणमामि
पुष्ट्यै ॥ ४ ॥
घोषप्रतिध्वनितशैलगुहासहस्र-
संभ्रान्तनादितवलन्मृगनाथयूथम्
अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-
मिन्द्रं कपीन्द्रपृतनावलयस्य
वन्दे ॥ ५ ॥
हेलाविलङ्घितमहार्णवमप्यमन्दं
घूर्णद्गदाविहतिविक्षतराक्षसेषु
स्वम्मोदवारिधिमपारमिवेक्षमाणं
वन्देऽहमक्षयकुमारकमारकेशम्
॥ ६ ॥
जम्भारिजित्प्रसभलम्बितपाशबन्धं
ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम्
रौद्रावतारमपि रावणदीर्घदृष्टि-
सङ्कोचकारणमुदारहरिं भजामि
॥ ७ ॥
दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-
त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य
हृष्टम् ।
पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-
तत्कायशोणितनिपातमपेक्षि वक्षः
॥ ८ ॥
अक्षप्रभृत्यमरविक्रमवीरनाश-
क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम्
निद्रापिताभ्रघनगर्जनघोरघोषैः
संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम्
॥ ९ ॥
आशंस्यमानविजयं रघुनाथधाम
शंसन्तमात्मकृतभूरिपराक्रमेण
दौत्ये समागमसमन्वयमादिशन्तं
वन्दे हरेः क्षितिभृतः पृतनाप्रधानम्
॥ १० ॥
यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं
दम्भान्धितां धियमपेक्ष्य विवर्धमानः
नक्तञ्चराधिपतिरोषहिरण्यरेता
लङ्कां दिधक्षुरपतत्तमहं वृणोमि
॥ ११ ॥
क्रन्दन्निशाचरकुलां ज्वलनावलीढैः
साक्षाद्गृहैरिव बहिः परिदेवमानाम्
स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-
दन्दह्यमाननगरीं परिगाहमानाम्
॥ १२ ॥
मूर्तैर्गृहासुभिरिव द्युपुरं
व्रजद्भि-
र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः
पीताम्बरं दधतुमुच्छ्रितदीप्ति
पुच्छं
सेनां वहद्विहगराजमिवाहमीडे
॥ १३ ॥
स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-
ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै
वन्दे यथोपरि पुरो दिवि दर्शयन्त-
मद्यैव रामविजयाजिकवैजयन्तीम्
॥ १४ ॥
रक्षक्षयैकचितकक्षकपूश्चितौ
यः
सीताशुचो निजविलोकनतो मृतायाः
दाहं व्यधादिव तदन्त्यविधेयभूतं
लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु
॥ १५ ॥
आशुद्धये रघुपतिप्रणयैकसाक्ष्ये
वैदेहराजदुहितुः सरिदीश्वराय
न्यासं ददानमिव पावकमापतन्त-
मब्धौ प्रभञ्जनतनूजनुषं भजामि
॥ १६ ॥
रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-
मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम्
भास्वत्प्रभातरविभानुभरावभासं
लङ्काभयङ्करममुं भगवन्तमीडे
॥ १७ ॥
तीर्त्वोदधिं जनकजार्पितमाप्य
चूडा-
रत्नं रिपोरपि पुरं परमस्य
दग्ध्वा ।
श्रीरामहर्षगलदश्र्वभिषिच्यमानं
तं ब्रह्मचारिवरवानरमाश्रयेऽहम्
॥ १८ ॥
यः प्राणवायुजनितो गिरिशस्य
शान्तः
शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा
हृद्यो हरस्य हरिवद्धरितां
गतोऽपि
धीधैर्यशास्त्रविभवेऽतुलमाश्रये
तं ॥ १९ ॥
स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या
यः पार्वतीश्वरमतोषयदाशुतोषम्
तस्मादवाप च वरानपरानवाप्यान्
तं वानरं परमवैष्णवमीशमीडे
॥ २० ॥
उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता
हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा
॥ २१ ॥
               ***
  


Author Socials Follow me