HYMNS TO NARASIMHA – SRI NRISIMHA PANCHAMRITA STOTRAM

२४ . श्री नृसिंहपञ्चामृतस्तोत्रम्
             (श्रीरामकृतम्)
अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥
गॊविन्द कॆशव जनार्दन वासुदॆव
विश्वॆश विश्व मधुसूदन विश्वरूप ।
श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥
देवाः समस्ताः खलु यॊगिमुख्याः
गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतॊऽस्मि ॥ ३ ॥
वॆदान् समस्तान् खलु शास्त्रगर्भान्
विद्याबलॆ कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्तॆ
तं नारसिंहं शरणं गतॊऽस्मि ॥ ४ ॥
ब्रह्मा शिवस्त्वं पुरुषॊत्तमश्च
नारायणॊऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमॆव तं त्वां सततं नतॊऽस्मि ॥ ५ ॥
स्वप्नॆऽपि नित्यं जगतां त्रयाणाम्
स्रष्टा च हन्ता विभुरप्रमॆयः ।
त्राता त्वमॆकस्त्रिविधॊ विभिन्नः
तं त्वां नृसिंहं सततं नतॊऽस्मि ॥ ६ ॥
राघवॆणकृतं स्तॊत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति यॆ द्विजवराः तॆषां स्वर्गस्तु शाश्वतः ॥ ७ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.