HYMNS TO SHIVA – BILWASHTAKAM

बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुषं ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ २ ॥
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ ३ ॥
सालग्रामशिलामेकां विप्राणां जातु चार्पयेत् ।
सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥
दन्तिकोटिसहस्राणि वाजपेयशतानि च ।
कोटिकन्यामहादानं ह्येकबिल्वं शिवार्पणम् ॥ ५ ॥
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियं ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ ६ ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७ ॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनं ।
प्रयागेमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥ ८ ॥
तुलसीबिल्वनिर्गुण्डीजंबीरामलकानि च ।
पञ्चबिल्वमिति प्रोक्तं एकबिल्वं शिवार्पणम् ॥ ९ ॥

      

                ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.