HYMNS TO SHIVA – LINGASHTAKAM

लिङ्गाष्टकम्
ब्रह्ममुरारिसुरार्चितलिङ्गं
निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ १ ॥
देवमुनिप्रवरार्चितलिङ्गं
कामदहंकरुणाकरलिङ्गम् ।
रावणदर्पविनाशकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ २ ॥
सर्वसुगन्धिसुलेपितलिङ्गं
बुद्धिविवर्द्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ३ ॥
कनकमहामणिभूषितलिङ्गं
फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ४ ॥
कुङ्कुमचन्दनलेपितलिङ्गं
पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ५ ॥
देवगणार्चितसेवितलिङ्गं
भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकर लिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ६ ॥
अष्टदलोपरिवेष्टितलिङ्गं
सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ७ ॥
सुरगुरुसुरवरपूजितलिङ्गं
सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ८ ॥
  
लिङ्गाष्टकमिदंपुण्यम्
यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति
शिवेन सह मोदते ॥ ९ ॥

 ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.