शिवषडक्षरीस्तोत्रम् – I
ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मात् ओङ्काराय नमो नमः ॥ १ ॥
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २ ॥
महत्तत्वं महादेवं महाज्ञानप्रदं परम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥
महापापहरं देवं मकाराय नमो नमः ॥३॥
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४ ॥
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरो देवः वकाराय नमो नमः ॥ ५ ॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६ ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
Click here to get to the Master Index from where you can access more than 600 posts