HYMNS TO SHIVA – SHIVA STOTRAM (KALKI KRITAM)

शिवस्तोत्रम्

(कल्किकृतम्)

गौरीनाथं विश्वनाथं शरण्यं
भूतावासं वासुकीकण्ठभूषम् ।
त्र्यक्षं पञ्चास्यादिदेवं पुराणं
वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥ १ ॥

योगाधीशं कामनाशं करालं
गङ्गासङ्गक्लिन्नमूर्धानमीशम् ।
जटाजूटाटोपरि (?) क्षिप्तभावं
महाकालं चन्द्रफालं नमामि ॥ २ ॥

यो भूतादिः पञ्चभूतैः सिसृक्षुः
तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो
ब्रह्मानन्दे क्रीडते तं नमामि ॥ ३ ॥

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा
लोकान् साधून् धर्मसेतून् बिभर्ति ।
ब्रह्माद्यंशे योऽभिमानी गुणात्मा
शब्दाद्यङ्गैः तं परेशं नमामि ॥ ४ ॥

यस्याज्ञया वायवो वान्ति लोके
ज्वलत्यग्निः सविता याति तप्यन् ।
शीतांशुः खे तारकासंग्रहश्च
प्रवर्तन्ते तं परेशं प्रपद्ये ॥ ५ ॥

यस्य श्वासात् सर्वधात्री धरित्री
देवो वर्षत्यम्बु कालः प्रमाता ।
मेरुर्मध्ये भुवनानां च भर्ता
तमीशानं विश्वरूपं नमामि ॥ ६ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.