शिवाष्टकम्
(वरुणकृतम्)
कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय ।
पृथ्वीरथाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमः शिवाय ॥ १ ॥
भक्तार्तिभञ्जनपराय परात्पराय
कालाभ्रकान्तिगरलाङ्कितकन्धराय ।
भूतेश्वराय भुवनत्रयकारणाय
हालास्यमध्यनिलयाय नमः शिवाय ॥ २ ॥
भूदारमूर्तिपरिमृग्यपदांबुजाय
हंसाब्जसंभवसुदूरसुमस्तकाय ।
ज्योतिर्मयस्फुरितदिव्यवपुर्धराय
हालास्यमध्यनिलयाय नमः शिवाय ॥ ३ ॥
कादंबकानन निवास कुतूहलाय
कान्तार्धभाग कमनीयकलेबराय ।
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमः शिवाय ॥ ४ ॥
विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्ट विदितात्म सुवैभवाय ।
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्यमध्यनिलयाय नमः शिवाय ॥ ५ ॥
संपत्प्रदाय सकलागममस्तकेषु
संघोषितात्मविभवाय सदाशिवाय ।
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमः शिवाय ॥ ६ ॥
गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरत्भुजगकुण्डलमण्डिताय ।
गन्धर्वकिन्नरसुगीत गुणात्मकाय
हालास्यमध्यनिलयाय नमः शिवाय ॥ ७ ॥
पाणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरः स्वयमभूत् परमेश्वरो यः ।
तस्मै जगत् प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमः शिवाय ॥ ८ ॥
गीर्वाणदेशिकगिरामपि दूरगं यत्
वक्तुं महत्वमिह को भवतः प्रवीणः ।
शंभो क्षमस्व भगवच्चरणारविन्द-
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९ ॥
***