HYMNS TO SRIMATA – SRIDURGADEVI DHYANAM

श्री दुर्गादेवीध्यानम्
      (ब्रूहन्नन्दिकेश्वरपुराणांतर्गतम्)
ओं जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १ ॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसंपन्नां सर्वाभरणभूषिताम् ॥ २ ॥
सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३ ॥
मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणे ध्येयं खड्गं चक्रं क्रमादधः ॥ ४ ॥
तीक्ष्णबाणं तथा शक्तिं दक्षिणेन विचिन्तयेत् ।
खेटकं पूर्णचापं च पाशमङ्कुशमेव च ॥ ५ ॥
घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ ६ ॥
शिरच्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ।
हृदि शूलेन निर्भिन्नं निर्यदान्त्रविभूषितम् ॥ ७ ॥
रक्तारक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥ ८ ॥
सपाशवामहस्तेन धृतकेशञ्च दुर्गया ।
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥ ९ ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ १० ॥
[प्रसन्नवदनां देवीं सर्वकामफलप्रदाम् ।
शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम्] ॥ ११ ॥
स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत्  ॥ १२ ॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १३ ॥
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेज्जगतां धात्रीं धर्मकामार्थमोक्षदाम् ॥ १४ ॥

                   ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.