HYMNS TO SRIRAM – SRI RAMA PREMASHTAKAM

          श्रीरामप्रेमाष्टकम्
         
(यामुनाचार्यकृतम्)
श्यामाम्बुदाभमरविन्दविशालनेत्रं
बन्धूकपुष्पसदृशाधरपाणिपादम्
सीतासहायमुदितं धृतचापबाणं
रामं नमामि शिरसा रमणीयवेषम्
॥ १ ॥
पटुजलधरधीरध्वानमादाय चापं
पवनदमनमेकं बाणमाकृष्य तूणात्
अभयवचनदायी सानुजः सर्वतो मे
रणहतदनुजेन्द्रो रामचन्द्रः
सहायः ॥ २ ॥
दशरथकुलदीपोऽमेयबाहुप्रतापो
दशवदनसकोपः क्षालिताशेषपापः
कृतसुररिपुतापो नन्दितानेकभूपो
विगततिमिरपङ्को रामचन्द्रः
सहायः ॥ ३ ॥
कुवलयदलनीलः कामितार्थप्रदो
मे
कृतमुनिजनरक्षो रक्षसामेकहन्ता
अपहृतदुरितोऽसौ नाममात्रेण
पुंसा-
मखिलसुरनृपेन्द्रो रामचन्द्रः
सहायः ॥ ४ ॥
असुरकुलकृशानुर्मानसाम्भोजभानुः
सुरनरनिकराणामग्रणीर्मे रघूणाम्
अगणितगुणसीमा नीलमेघौघधामा
शमदमितमुनीन्द्रो रामचन्द्रः
सहायः ॥ ५ ॥
कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः
पवनशरनिकायक्षिप्तमारीचमायः
विदलितहरचापो मेदिनीनन्दनाया
नयनकुमुदचन्द्रो रामचन्द्रः
सहायः ॥ ६ ॥
पवनतनयहस्तन्यस्तपादाम्बुजात्मा
कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा
अपरिमितशरौघैः पूर्णतूणीरधीरो
लघुनिहतकपीन्द्रो रामचन्द्रः
सहायः ॥ ७ ॥
कनकविमलकान्त्या सीतयालिङ्गिताङ्गो
मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः
स्वजननिकरबन्धुर्लीलया बद्धसेतुः
सुरमनुजकपीन्द्रो रामचन्द्रः
सहायः ॥ ८ ॥
यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं
शुभम् ।
यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं
व्रजेत् ॥ ९ ॥

              

 ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.