`द्वादशनामपञ्जरम्
पुरस्तात् केशवः पातु चक्री
जाम्बूनदप्रभः ।
जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः
॥ १ ॥
॥ १ ॥
इन्दीवरदलश्यामो माधवोर्ध्वं
गदाधरः ।
गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे
धन्वी चन्द्रप्रभो महान् ॥ २ ॥
धन्वी चन्द्रप्रभो महान् ॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः
।
।
आग्नेय्यामरविन्दाभो मुसली
मधुसूदनः ॥ ३ ॥
मधुसूदनः ॥ ३ ॥
त्रिविक्रमः खड्गपाणिः निऋत्यां ज्वलनप्रभः
।
।
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान्
॥ ४ ॥
॥ ४ ॥
एशान्यां पुण्डरीकाभः श्रीधरः
पट्टसायुधः ।
पट्टसायुधः ।
विद्युत्प्रभो हृषीकेशः स बाह्यान्
दिशि मुद्गरी ॥ ५ ॥
दिशि मुद्गरी ॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः
।
।
सर्वायुधः सर्वशक्तिः सर्वज्ञः
सर्वतोमुखः ॥ ६ ॥
सर्वतोमुखः ॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः
।
।
स बाह्याभ्यन्तरं देहं व्याप्य
दामोदर स्थितः ॥ ७ ॥
दामोदर स्थितः ॥ ७ ॥
एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम
।
।
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति
कदाचन ॥ ८ ॥
कदाचन ॥ ८ ॥
भयन्नास्ति कदाचन ओं नम इति
।
।