HYMNS TO VISHNU – PANCHAYUDHA STOTRAM

पञ्चायुधस्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषांप्राणविनाशि विष्णोश्चक्रं
सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं
दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणांकठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधारम्
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याऽशनि बाणवर्षि
शाङ्र्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां स्तवं
पठेद्योनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रुजलाग्निमध्ये
यदृच्छयापत्सु महा भयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा
सुखी भवेत् तत्कृत सर्वरक्षः ॥ ७ ॥
                     ***

Click here for Ramachandra’s English Translation of this stotra

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.