६. षट्पदीस्तॊत्रम्
(श्री शंकराचार्यकृतम्)
अविनयमपनय विष्णॊ दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसार सागरतः ॥ १ ॥
दिव्यधुनीमकरन्दॆ परिमलपरिभॊगसच्चिदानन्दॆ ।
श्रीपतिपदारविन्दॆ भवभयखॆदच्छिदे वन्दे॥ २ ॥
सत्यपि भॆदापगमॆ नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रॊ हि तरंगः क्वचन समुद्रॊ न तारंगः ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टॆ ।
दृष्टॆ भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।
परमेश्वर परिपाल्यॊ भवता भवतापभीतोऽहम् ॥ ५ ॥
दामॊदर गुणमन्दिर सुन्दरवदनारविन्द गॊविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मॆ ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीयॆ वदनसरॊजॆ सदा वसतु ॥ ७ ॥
It is a treasure house! Thank You for the service.