HYMNS TO VISHNU – SRI BHAGAVACHHARANA STOTRAM

           श्रीभगवच्छरणस्तोत्रम्
            (स्वामि ब्रह्मानन्दकृतं)
सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे।
मायानिर्मितविश्वाय महेशाय
नमो नमः ॥ १ ॥
रोगा हरन्ति सततं प्रबलाः शरीरम्
कामादयोऽप्यनुदिनं प्रदहन्ति
चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन्
दिनानि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २ ॥
देहो विनश्यति सदा परिणामशील-
श्चित्तं च खिद्यति सदा विषयानुरागि
बुद्धिः सदा हि रमते विषयेषु
नान्तः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ३ ॥
आयुर्विनश्यति यथामघटस्थतोयम्
विद्युत्प्रभेव चपला बत यौवनश्रीः
वृद्धा प्रधावति यथा मृगराजपत्नी
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ४ ॥
आयाद्व्ययो मम भवत्यधिकोऽविनीते
कामादयो हि बलिनो निबलाः शमाद्याः
मृत्युर्यदा तुदति मां बत किं
वदेयम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ५ ॥
तप्तं तपो नहि कदापि मयेह तन्वा
वाण्या तथा नहि कदापि तपश्च
तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ६ ॥
स्तब्धं मनो मम सदा नहि याति
सौम्यम्
चक्षुश्च मे न तव पश्यति विश्वरूपम्
वाचा तथैव न वदेन्मम सौम्यवाणीम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ७ ॥
सत्वं न मे मनसि याति रजस्तमोभ्याम्
विद्धे तथा कथमहो शुभकर्मवार्ता
साक्षात् परंपरतया सुखसाधनम्
तत्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ८ ॥
पूजाकृता नहि कदापि मया त्वदीया
मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा
चित्तं न मे स्मरति ते चरणौ
ह्यवाप्य
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ९ ॥
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो
ज्ञानस्यसाधनगणो न विवेकमुख्यः
ज्ञानं क्व साधनगणेन विना क्व
मोक्षः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १० ॥
सत्सङ्गतिर्हि विदिता तव भक्तिहेतुः
साप्यद्य नास्ति बत पण्डितमानिनो
मे ।
तामन्तरेण नहि सा क्वच बोधवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ११ ॥
दृष्टिर्न भूतविषया समताभिधाना
वैषम्यमेव तदियं विषयीकरोति
शन्तिः कुतो मम भवेत् समता
न चेत्स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १२ ॥
मैत्री समेषु न च मेऽस्ति कदापि
नाथ
दीने न तथा न करुणा मुदिता
च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुद्कथं
स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १३ ॥
नेत्रादिकं मम बहिर्विषयेषु
सक्तम्
नान्तर्मुखं भवति तानविहाय
तस्य ।
क्वान्तर्मुखत्वमपहाय सुखस्य
वार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १४ ॥
त्यक्तं गृहाद्यपि मया भवतापशान्त्यै
नासीदसौ हृतहृदो मम मायया ते
सा चाधुना किमु विधास्यति नेति
जाने
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १५ ॥
प्राप्ता धनं गृहकुटुम्बगजाश्वदारा
राज्यं यदैहिकमथेन्द्रपुरश्च
नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १६ ॥
प्राणान्निरुद्ध्य विधिना न
कृतो हि योगो
योगं विनास्ति मनसः स्थिरता
कुतो मे ।
तां वै विना मम न चेतसि शान्तिवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १७ ॥
ज्ञानं यथा मम भवेत् कृपया
गुरूणाम्
सेवां तथा न विधिनाकरवं हि
तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १८ ॥
तीर्थादि सेवनमहो विधिना हि
नाथ
नाकारि येन मनसो मम शोधनं स्यात्
शुद्धिं विना न मनसोऽवगमापवर्गौ
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १९ ॥
वेदान्तशीलनमपि प्रमितिं करोति
ब्रह्मात्मनः प्रमिति साधन
संयुतस्य ।
नैवास्ति साधन लवो मयि नाथ
तस्याः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २० ॥
गोविन्द शंकर हरे गिरिजेश मेश
शंभो जनार्दन गिरीश मुकुन्द
साम्ब ।
नान्या गतिर्मम कथञ्चन वां
विहाय
तस्मात् प्रभो मम गतिः कृपया
विधेया ॥ २१ ॥
एवं स्तवं भगवदाश्रयणाभिधानम्
ये मानवा प्रतिदिनं प्रणताः
पठन्ति ।
ते मानवाः भवरतिं परिभूय शान्तिम्
गच्छन्ति किं च
परमात्मनि भक्तिमद्धा ॥ २२ ॥
                ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.