HYMNS TO VISHNU -SRI VISHNU SHATANAAMASTOTRAM

श्रीविष्णुशतनामस्तोत्रम्
वासुदेवं हृषीकेशं वामनं जलशायिनम्
जनार्दनं हरिं कृष्णं श्रीवक्षं
गरुडध्वजम् ॥ १ ॥
वराहं पुण्डरीकाक्षं नृसिंहं
नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम्
॥ २ ॥
नारायणं गदाध्यक्षं गोविन्दं
कीर्तिभाजनम् ।
गोवर्द्धनोद्धरं देवं भूधरं
भुवनेश्वरं ॥ ३ ॥
वेत्तारं यज्ञपुरुषं यज्ञेशं
यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं
नरोत्तमम् ॥ ४ ॥
वैकुण्ठं दुष्टदमनं भूगर्भं
पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं
नन्दिकेश्वरं ॥ ५ ॥
रामं रामं हयग्रीवं भीमं रौद्रं
भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं
मङ्गलायुधम् ॥ ६ ॥
दामोदरं दमोपेतं केशवं केशिसूदनम्
वरेण्यं वरदं विष्णुं आनन्दं
वसुदेवजम् ॥ ७ ॥
हिरण्यरेतसं दीप्तं पुराणं
पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं
गुणशाश्वतम् ॥ ८ ॥
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम्
मेघश्यामं चतुर्बाहुं कुशलं
कमलेक्षणम् ॥ ९ ॥
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्
सर्वज्ञं सर्वरूपस्थं सर्वेशं
सर्वतोमुखम् ॥ १० ॥
ज्ञानं कूटस्थमचलं ज्ञानदं
परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिनं
योगरूपिणम् ॥ ११ ॥
ईश्वरं सर्वभूतानां वन्दे भूतमयं
प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं
खलु पापहम् ॥ १२ ॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम्
यः पठेत् प्रातरुत्थाय स भवेत्
वैष्णवो नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्
॥ १३ ॥
               ***
  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.