HYMNS TO GANESHA – MAYURESHWARA STOTRAM

 

मयूरेश्वरस्तोत्रम्

   (गणेशपुराणांतर्गतं)

परब्रह्मरूपं चिदानन्दरूपं

परेशं सुरेशं गुणाब्धिं
गुणेशम् ।

गुणातीतमीशं मयूरेशवन्द्यं

गणॆशं नताः स्मो नताः
स्मो नताः स्मः ॥ १ ॥

जगद्वन्द्यमेकं पराकारमेकं

गुणानां परं कारणं
निर्विकल्पम् ।

जगत्पालकं हारकं तारकं
तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ २ ॥

महादेवसूनुं महादैत्यनाशं

महापूरुषं सर्वदा विघ्ननाशम्

सदा भक्तपोषं परं ज्ञानकोशं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ३ ॥ 

अनादिं गुणादिं सुरादिं
शिवायाः

महातोषदं सर्वदा सर्ववन्द्यम्

सुरार्यन्तकं भुक्तिमुक्तिप्रदं
तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः  ॥ ४ ॥

परं मायिनं मायिनामप्यगम्यं

मुनिध्येयमाकाशकल्पं
जनेशम् ।

असंख्यावतारं निजाज्ञाननाशं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः  ॥ ५ ॥

अनेकक्रियाकारकं श्रुत्यगम्यं

त्रयीबोधितानेककर्मादिबीजम्

क्रियासिद्धिहेतुं
सुरेन्द्रादिसेव्यं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ६ ॥

महाकालरूपं निमेषादिरूपं

कलाकल्परूपं सदागम्यरूपम्

जनज्ञानहेतुं नृणां
सिद्धिदं तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ७ ॥

महेशादिदेवैः सदा ध्येयपादं

सदा रक्षकं तत्पदानां
हतारिम् ।

मुदा कामरूपं कृपावारिधिं
तं

मयूरेशवन्द्यं नताः
स्मो नताः स्मः ॥ ८ ॥

य इदं पठति स्तोत्रं
स कामान् लभतेऽखिलान् ।

सर्वत्र जयमाप्नोति
मानवायुः श्रियं पराम् ॥ ९ ॥

पुत्रवान् धनसंपन्नो
वश्यतामखिलं नयेत् ।

सहस्रावर्तनात् कारागृहस्थं
मोचयेज्जनम् ॥ १० ॥

               ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.