ऋणहरगणेशस्तोत्रम्
(कृष्णयामलतंत्रान्तर्गतम्)
सिंदूरवर्णं द्विभुजं
गणेशं
गणेशं
लंबोदरं पद्मदले निविष्टम्
।
।
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि
देवम् ॥ १ ॥
देवम् ॥ १ ॥
सृष्ट्यादौ ब्रह्मणा
सम्यक् पूजितः फलसिद्धये ।
सम्यक् पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ २ ॥
ऋणनाशं करोतु मे ॥ २ ॥
त्रिपुरस्य वधात्पूर्वं
शंभुना सम्यगर्चितः ।
शंभुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ३ ॥
ऋणनाशं करोतु मे ॥ ३ ॥
हिरण्यकश्यप्वादीनां
वधार्थे विष्णुनाऽर्चितः ।
वधार्थे विष्णुनाऽर्चितः ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ४ ॥
ऋणनाशं करोतु मे ॥ ४ ॥
महिषस्य वधे देव्या
गणनाथः प्रपूजितः ।
गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ५ ॥
ऋणनाशं करोतु मे ॥ ५ ॥
तारकस्य वधात्पूर्वं
कुमारेण प्रपूजितः ।
कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ६ ॥
ऋणनाशं करोतु मे ॥ ६ ॥
भास्करेण गणेशो हि
पूजितश्छविसिद्धये ।
पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ७ ॥
ऋणनाशं करोतु मे ॥ ७ ॥
शशिना कान्तिवृध्यर्थं
पूजितो गणनायकः ।
पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ८ ॥
ऋणनाशं करोतु मे ॥ ८ ॥
पालनाय च तपसां विश्वामित्रेण
पूजितः ।
पूजितः ।
सदैव पार्वतीपुत्रः
ऋणनाशं करोतु मे ॥ ९ ॥
ऋणनाशं करोतु मे ॥ ९ ॥
इदं तु ऋणहरं स्तोत्रं
तीव्रदारिद्र्यनाशनम् ।
तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं
वर्षमेकं समाहितः ॥ १० ॥
वर्षमेकं समाहितः ॥ १० ॥
दारिद्र्यं दारुणं
त्यक्त्वा कुबेरसमतां व्रजेत् ॥ ११ ॥
त्यक्त्वा कुबेरसमतां व्रजेत् ॥ ११ ॥