SRI ANJANEYA ASHTOTHARA SATANAMA STOTRAM

   श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम्
आञ्जनेयो महावीरः हनूमान् मारुतात्मजः
तत्त्वज्ञानप्रदो सीतादेवीमुद्राप्रदायकः     ॥१-६॥
अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः’
सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥७-१०॥
परविद्यापरीहर्ता परशौर्यविनाशनः
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥११-१४॥
सर्वग्रहविनाशी च भीमसेनसहायकृत्
सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥१५-१९॥
पारिजातद्रुमूलस्थो सर्वमन्त्रस्वरूपवान्
सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा ॥२०-२३॥
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः
बलसिधिकरः सर्वविद्यासम्पत्प्रदायकः ॥२४-२९॥
कपिसेनानायकश्च भविष्यच्चतुराननः
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥३०-३३॥
चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलः
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥३४-३६॥
कारागृहविमोक्ता च शृंखलाबन्धमोचकः
सागरोत्तारको प्राज्ञः रामदूतः प्रतापवान् ॥३७-४२॥
वानरः केसरीसूनुः सीताशोकनिवारणः
अञ्जनागर्भसंभूतः बालार्कसदृशाननः ॥४३-४७॥
विभीषणप्रियकरो दशग्रीवकुलान्तकः
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥४८-५२॥
चिरञ्जीवी रामभक्तः दैत्यकार्यविघातकः
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥५३-५९॥
लंकिणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः
गन्धमादनशैलस्थो लंकापुरविदाहकः       ॥६०-६४॥   
सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः 
सुरार्चितो महातेजाः रामचूडामणिप्रदः     ॥६५ -७१॥
कामरूपी पिङ्गलाक्षः वर्धिमैनाकपूजितः
कबलीकृतमार्ताण्डमण्डलो विजितेन्द्रियः  ॥७२- ७६॥
रामसुग्रीवसंधाता महिरावणमर्दनः
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥७७-८१॥

चतुर्बाहुर्दीनबन्धुःमहात्मा भक्तवत्सलः

संजीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः ॥८२-८९॥
कालनेमिप्रमथनः हरिर्मर्कटमर्कटः
दान्तो शान्तः प्रसन्नात्मा शतकण्ठमदापहः ॥९०-९५॥
योगी रामकथालोलः सीतान्वेषणपण्डितः
वज्रदंष्ट्रो वज्रनखः रुद्रवीर्यसमुद्भवः         ॥९६-१०१॥
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकः
पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः  ॥१०२-१०४॥
दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः
सीतासमेतश्रीरामपादसेवाधुरंधरः     ॥१०५-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.