PURUSHA SUKTAM

                                                                 पुरुषसूक्तम् 
                तैत्तिरीयारण्यकम् तृतीय प्रश्नः   
ऊँ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये। दैवी स्वस्तिरस्तु नः।
स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे ।  शं चतुष्पदे ।
ऊँ शान्तिः शान्तिः शान्तिः ॥
ऊँ सहस्रशीर्षा पुरुषः। सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेदँ सर्वम्। यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः। यदन्नेनातिरोहति। एतावानस्य महिमा। अतो
ज्यायाँश्च पूरुषः ।।१॥
पादोस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ।त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः। ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ।  तस्माद्विराडजायत। विराजो अधि पूरुषः । स जातो अत्यरिच्यत। पश्चाद्भूमिमथो पुरः ॥२॥
यत्पुरुषेण हविषा। देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ।  सप्तास्यासन् परिधयः ।त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ॥३॥
तेन देवा अयजन्त। साध्या ऋषयश्च ये। तस्माद्यज्ञात्सर्वहुतः। संभृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यान् । आरण्यान्ग्राम्यांश्च ये । तस्माद्यज्ञात्सर्वहुतः।ऋचः सामानि जज्ञिरे। छन्दाँसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । तस्मादश्वा अजायन्त। ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्। तस्माज्जाता अजावयः।
यत्पुरुषं व्यदधुः। कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू। कावूरू पादावुच्येते । ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ॥५॥
ऊरु तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत। चन्द्रमा मनसो जातः। चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत। नाभ्या आसीदन्तरिक्षं ।
शीर्ष्णो द्यौ समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् ।तथा लोकाँ अकल्पयन् ॥६॥
वेदाहमेतं पुरुषं महान्तं । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ।धाता पुरस्ताद्यमुदाजहार । शक्रप्रविद्वान्प्रदिशश्चतस्रः। तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते। यत्र पूर्वे साध्याः सन्ति देवाः ॥७॥
अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे। वेदाहमेतं पुरुषं महान्तं । आदित्यवर्णं तमसः परस्तात्। तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय। प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते।।८॥
तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः। यो देवेभ्य आतपति। यो देवानां पुरोहितः। पूर्वो यो देवेभ्यो जातः। नमो रुचाय ब्राह्मये। रुचं ब्राह्मं जनयन्तः। देवा अग्रे तदब्रुवन्। यस्त्वैवं ब्राह्मणो विद्वान्। तस्य देव असन् वशे ॥९॥
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ। अहोरात्रे पार्श्वे। नक्षत्राणि रूपम् । अश्विनौ व्यात्तं।
इष्टं मनिषाण। अमुं मनिषाण। सर्वं मनिषाण ॥१०॥
             ऊँ शान्तिः शान्तिः शान्तिः


Author Socials Follow me