SRI RUDRAM

                                                      SRI RUDRA PRASHNA
Shri Rudram is aVedic Hymn addressed to Rudra,  an aspect of Lord Shiva. It is right in the centre of the Taithiriya Samhita of Yajurveda in the Fourth Kanda. It is also known as sri Rudraprashna, Satarudriya and   Rudropanishad.  The Panchakshara mantra (Om Namah Shivaya) is in the heart of Srirudram.  This is one of the hymns prescribed  for daily chanting according to the following couplet:
            स्वशाखोपनिषद्गीता विष्नोर्नामसहस्रकम् ।
      रुद्रं पुरषसूक्तं च नित्यमावर्तयेत् बुधः ॥
The wise should chant daily the Unpanishad in his own Vedic shakha, Bhagavadgita, Vishnu Sahasranama, Srirudram and Purusha Suktam.
Suta Samhita says:
            वृक्षस्य मूलसेचेन शाखाः पुष्यन्ति वै यथा।
      शिवे रुद्रजपात् प्रीते प्रीता एवास्य देवताः।
      अतो रुद्रजपादेव भुक्तिमुक्ती प्रसिद्ध्यत:॥
Just as by watering the root of a tree its branches are also nourished, so also by propitiating Rudra by chanting Srirudram all other deities are pleased. Therefore by chanting Srirudram alone one can get everything in this world and also liberation from this world.
Rudra is the very first Cause, the physician for this disease of samsara.  He ignores the failings of his devotees and only considers what is good in them.  He is the very Sun whom we see daily rising.  He takes countless forms.  Whatever we see in this world is his form only.  Srirudram offers prostrations to those who are sitting, lying, sleeping, waking, standing or running and who are members of assembly, heads of  assembly, carpenters, potters, hunters, fishermen, thieves, robbers, those who make chariots, those who drive the chariots, horses, trees and whatever is moving or non-moving etc. etc since everything is his His form only.  It is believed that wherever this hymn is chanted regularly there will prevail peace and prosperity always.  
      
                                                          श्रीरुद्रप्रश्नः
           कृष्णयजुर्वेदीय तैत्तिरीय संहिता
          चतुर्थं वैश्वदेवं काण्डम् प्रथमः प्रपाठकः
ऊँ नमो भगवते रुद्राय। ऊँ नमस्ते रुद्र मन्यव उतोत इषवे नमः। नमस्ते अस्तु धन्वने  बाहुभ्यामुत ते  नमः । या त इषुः शिवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडय । या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि। यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे। शिवाँ गिरित्र तां कुरु मा हिँसीः पुरुषं जगत्। शिवेन वचसा त्वा गिरिशाच्छावदामसि । यथा नःसर्वमिज्जगदयक्ष्मँ सुमना असत्। अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीँश्च सर्वाञ्जंभयन्त्सर्वांश्च यातुधान्यः।
असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः। ये चेमाँ रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाँ हेड ईमहे । असौ योऽवसर्पति नीलग्रीवो  विलोहितः। उतैनं गोपा अदृशन्नदृशन्नुदहार्यः। उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः । नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरन्नमः । प्रमुञ्च धन्वनस्त्वमुभयोरात्नियोर्ज्याम्। याश्च ते हस्त इषवः परा ता भगवो वप। अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव।विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ उत। अनेशन्नस्येषव आभुरस्य निषङ्गथिः।
या ते हेतिर्मीढुष्टम  हस्ते बभूव ते धनुः। तयाऽस्मान् विश्वतस्त्वमयक्ष्मया परिब्भुज। नमस्ते अस्त्वायुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने। परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। अथो  य इषुधिस्तवारे अस्मन्निधेहि तम्॥१॥ शंभवे नमः
   नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥
   नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः
पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातताविने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः ॥२॥
 नमः सहमानाय  निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तंचरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च
वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विध्यद्भ्यश्च
वो नमो नम आसीनेभ्य: शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥३॥
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृँहतीभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो  विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः, क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥४॥
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रिवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च ॥५॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्याय चाऽवसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च॥६॥   
  नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च  नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥७॥
 नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥८॥
   नम इरिण्याय च प्रपथ्याय च नमः किँशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्प्याय च नमः पाँसव्याय च
रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभो नम आनिर्‍हतेभ्यो नम आमीवत्केभ्यः ॥९॥   
द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां पशूनां मा भेर्माऽरो मो एषां किञ्चनाममत्।या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी। शिवा रुद्रस्य भेषजी तया नो मृड जीवसे । इमाँ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम्। यथा नः शमसद्द्विपदे  चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् । मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते। यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ । मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितं । मा नोऽवधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषः। वीरान्मा  नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते । आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।रक्षा च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः। स्तुहि श्रुतं गर्तसदं  युवानं  मृगन्न भीममुपहन्तुमुग्रम्। मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मिन्निवपन्तु सेनाः । परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मति रघायोः। अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय। मीढुष्टम शिवतम शिवो नः सुमना भव। परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि। विकिरिद विलोहित नमस्ते अस्तु भगवः। यास्ते सहस्रँ हेतयोन्यमस्मन्निवपन्तु ताः । सहस्राणि सहस्रधा बाहुवोस्तव हेतयः। तासामीशानो भगवः पराचीना मुखा कृधि॥१०॥
  सहस्राणि सहस्रशो ये रुद्रा अधि भूम्यां। तेषाँ  सहस्रयोजनेऽवधन्वानि तन्मसि। अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि। नीलग्रीवाः शितिकण्ठाः शर्वा अधः, क्षमाचराः ।  नीलग्रीवाः शितिकण्ठा दिवँ रुद्रा उपश्रिताः। ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः । ये भूतानामधिपतयो विशिखासः कपर्दिनः।ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्। ये पथां पथिरक्षय ऐलबृदायव्युधः।ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः।य एतावन्तश्च भूयाँसश्च दिशो रुद्रा वितस्थिरे। तेषाँ सहस्रयोजनेऽवधन्वानि तन्मसि। नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥११॥
त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्। यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु। तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य। यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य। अयं मे हस्तो भगवानयं मे भगवत्तरः। अयं मे विश्वभेषजोऽयँ  शिवाभिमर्शनः।ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानव यजामहे। म्रुत्यवे स्वाहा मृत्यवे स्वाहा। ऊँ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि।।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः। तेनान्नेनाप्यायस्व॥

सदाशिवोम् |

                 ऊँ शान्तिः शान्तिः शान्तिः   

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.