श्रीसुदर्शनषट्कम्
सहस्रादित्यसङ्काशं सहस्रवदनं प्रभुम्।
सहस्रदोः सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥१॥
हसन्तं हारकेयूरमुकुटाङ्गदभूषणम्।
भूषणैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥२॥
साकारसहितं मन्त्रं पठन्तं शत्रुनिग्रहम्।
सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥३॥
रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतम्।
व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम्॥४॥
हुंकारभैरवं भीमं प्रणतार्तिहरं प्रभुम्।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥५॥
फट्कारान्तमनिर्देश्यं महामंत्रेण संयुतम्।
शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥६॥