DEVI CHATUHSHASHTI UPACHARA PUJA STOTRAM

              देवीचतुःषष्ट्युपचारपूजास्तोत्रम्
     (श्रीमच्छंकरभगवत्पादविरचितम्)
उषसि मागधमंगलगायनै-
र्झटिति जागृहि जागृहि
अतिकृपार्द्रकटाक्षनिरीक्षणैः
जगदिदं जगदंब सुखीकुरु  ॥१॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुंभयुक्तम् ।
मणिमण्डपमध्यमेहि मात-
र्मयि कृपयाशु समर्चनं गृहीतुम् ॥२॥
कनककलशशोभमानशीर्षं
जलधरलंबि समुल्लसत्पताकम्।
भगवति तव संनिवासहेतोः
मणिमयमन्दिरमेतदर्पयामि  ॥३॥
तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा।
नवरत्नविभूषिता मया
शिबिकेयं जगदंब तेऽर्पिता ॥४॥
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेस्मि-
न्नुपविश पदयुग्मं हेमपीठे निधाय ॥५॥
मणिमौक्तिकनिर्मितं महान्तं
कनकस्तंभचतुष्टयेन युक्तं
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि ॥६॥
दूर्वया सरसिजान्वितविष्णु-
क्रान्तया च सहितं कुसुमाढ्यं।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥७॥
गन्धपुष्पयवसर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम्।
हेमपात्रनिहितं सह रत्नै-
रर्घ्यमेतदुररीकुरु मातः ॥८॥
जलजद्युतिना करेण जाती-
फलतक्कोललवंगगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
र्भगवत्याचमनं विधीयताम् ॥९॥
निहितं कनकस्य संपुटे
पिहितं रत्नपिधानकेन यत्
तदिदं जगदंब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥१०॥
एतच्चंपकतैलमंब विविधैर्पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृंगैर्भ्रमद्भिर्वृतम्।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वंगेषु चालिप्यते ॥११॥
मातः कुंकुमपङ्कनिर्मितमिदं  देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः।
केशानामलकैर्विशोध्य विशदान् कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुंभसहितैः संवासितोष्णोदकैः ॥१२॥
दधिदुग्धघृतैः समाक्षिकैः
सितया शर्करया समन्वितैः
स्नपयामि तवाहमादरा-
ज्जननि त्वां पुनरुष्णवारिभिः ॥१३॥
एलोशीरसुवासितैर्सकुसुमैर्गंगादितीर्थोदकै-
र्माणिक्यामलमौक्तिकामृतरसैर्स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरात्
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥१४॥
बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमंगीकुरु ॥१५॥
नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम् ॥१६॥
बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान् कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चंपकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥१७॥
सौवीराञ्जनमंब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत्।
तन्न्यूनं मलिनमपि त्वदक्षिसंगात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥१८॥
मञ्जीरे पदयोर्निधानरुचिरां विन्यस्य काञ्चीम् कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले।
केयूराणि भुजेषु रत्नवलयश्रेणीं  करेषु क्रमा-
त्ताटङ्के तव कर्णोयो र्विनिदधे शीर्षे च चूडामणिम् ॥१९॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं  नासापुटे मौक्तिकम्।
मातर्मौक्तिकजालिकाम् च कुचयोः सर्वांगुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥२१॥
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा ॥२२॥
जननि चंपकतैलमिदं पुरो
मृगमदोपयुतं पटवासकम्।
सुरभिगन्धमिदं च चतुःसमं
सपदि सर्वमिदं परिगृह्यताम् ॥२३॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥२४॥
मन्दारकुन्दकरवीरलवंगपुष्पै-
स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचंपककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥२५॥
मालतीवकुलहेमपुष्पिका
काञ्चनारकरवीरकैतकैः
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदंब ते वपुः ॥२६॥
पारिजातशतपत्रपाटलै-
र्मल्लिकावकुलचंपकादिभिः।
अंबुजैः सुकुसुमैश्च सादरं
पूजयामि जगदंब ते वपुः ॥२७॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोटितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥२८॥
  
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोटितै-
र्दीपैर्दीर्घतरांधकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥२९॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररंभाफलैः ।
एलाजीरकहिंगुनागरनिशाकुस्तुंभरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥३०॥
सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि।
शाकोल्लसन्मरिचिजीरकबाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदंब मयार्पितानि ॥३१॥
क्षीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः ॥३२॥
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुंकुमेन
हस्तौ समुद्वर्तय चन्दनेन ॥३३॥
अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम्।
पटपूतमिदं जितामृतं
शुचि गंगाजलमंब पीयताम् ॥३४॥
जंब्वाम्ररंभाफलसंयुतानि
द्राक्षाफलक्षौद्रसमन्वितानि।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥३५॥
कूश्माण्डकोशातकिसंयुतानि
जंबीरनारंगसमन्वितानि ।
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि ॥३६॥
कर्पूरेणयुतैर्लवंगसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः।
मातः कैतकपत्रपाण्डुरुचिभिस्तांबूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं तांबूलमंगीकुरु ॥३७॥
एलालवंगादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि।
तांबूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि ॥३८॥ 
तांबूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तं।
सौवर्णपात्रनिहितं खदिरेण सार्धं
तांबूलमंब वदनांबुरुहे गृहाण ॥३९॥
महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान् बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान् प्रकृष्टान्
भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥४०॥
सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः॥४१॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥४२॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम्॥४३॥
शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः।
जगदंब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥४४॥
मार्ताण्डमण्डलनिभो जगदंब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते।
पूर्णेन्दुबिंबरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥४५॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम्।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदंब सहस्रदीपैः ॥४६॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगंभीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंगः ॥४७॥
मधुकरवृतकुंभन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिंकिणीशोभिकण्ठः।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातंग एषः ॥४८॥
द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तं ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥४९॥
हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तं ।
अतिबहु चतुरंगसैन्यमेतद्-
भगवति भक्तिभरेण तेऽर्पयामि॥५०॥
परिघीकृतसप्तसागरं
बहुसंपत्सहितं मयांब ते विपुलम्।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥५१॥
शतपत्रयुतैः स्वभावशीतै-
रतिसौरभ्ययुतैःपरागपीतैः।
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदंब वीजयामि ॥५२॥
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरंगभूमिः।
इयमतिरुचुरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥५३॥
मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृंगमालाः।
युवजनसुखकारि चारुलीला
भगवति ते पुरतः नटन्ति बालाः ॥५४॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥५५॥
डमरुण्टिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्रगडादयः ।
झटिति झाङ्कृतझांकृतझांकृतै-
र्बहुदयं हृदयं सुखयन्तु ते ॥५६॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः।
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि ॥५७॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
र्भगवति भवदीयं मानसं रञ्जयामि ॥५८॥
तवदेविगुणानुवर्णने
चतुरा नो चतुराननादयः
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तवकर्तुमीश्वरः ॥५९॥
पदे पदे यत्परिपूजकेभ्यः
सद्योऽश्वमेधादिफलं ददाति।
तत्सर्वपापक्षयहेतुभूतं
प्रदक्षिणं ते परितः करोमि ॥६०॥
रक्तोत्पलारक्तलताप्रभाभ्यां
ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम्।
अशेषबृन्दारकवन्दिताभ्यां
नमो भवानीपदपंकजाभ्याम् ॥६१॥
चरणनलिनयुग्मं पंकजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥६२॥
अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन्
भगवति भवनेऽस्तु ते निवासः ॥६३॥
एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मिन्
पर्यंके कनकमये निषीद मातः ॥६४॥
तव देवि सरोजचिह्नयोः
पदयोर्निर्जितपद्मरागयोः।
अतिरक्ततरैरलक्तकैः
पुनरुक्तां रचयामि रक्तताम् ॥६५॥
अथ मातरुशीरवासितं
निजतांबूलरसेन रञ्जितम्।
तपनीयमये हि पट्टके
मुखगण्डूषजलं विधीयताम् ॥६६॥
क्षणमथ जगदंब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने।
अतिरहसि मुदा शिवेनसार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥६७॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां
अक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणीद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि॥६८॥
एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व।
न्य़ूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥६९॥
पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान् पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति ॥७०॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति।
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्
वाग्वादिन्याः प्रसादेन वत्सरात्स कवीभवेत् ॥


Author Socials Follow me