रमनाममहिमा
राम एव परंब्रह्म राम एव परं तपः
राम एव परं तत्त्वं श्रीरामो ब्रह्मतारकम्
[रामरहस्योपनिशद्]
रामेति वर्णद्वयमादरेण
सदा स्मरन् मुक्तिमुपैती जन्तुः
कलौ युगे कल्मषमानसानां
अन्यत्र धर्मे खलु नाधिकारः
निखिलनिलयमन्त्रः नित्यतत्त्वाख्यमन्त्रो
भवकुलहरमन्त्रो भूमिजा प्राणमन्त्रः।
पवनज नुतमन्त्रः पार्वतीमोक्षमन्त्रः
पशुपति निजमन्त्रः पातु मां राममन्त्रः ॥
प्रणवनिलयमन्त्रः प्राणनिर्याणमन्त्रः
प्रकृतिपुरुषमन्त्रो ब्रह्मरुद्रेन्द्रमन्त्रः।
प्रकटदुरितरागद्वेषनिर्नाशमन्त्रो
रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥
दशरथसुतमन्त्रो दैत्यसंहारमत्रः
विबुधविनुतमन्त्रो विश्वविख्यातमन्त्रः।
मुनिगणनुतमन्त्रो मुक्तिमार्गैकमन्त्रः
रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥
संसारसागरभयापहविश्वमन्त्रं
साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम्।
सारंगहस्तमुखहस्तनिवासमन्त्रं
कैवल्यमन्त्रमनिशं भजराममन्त्रम्॥
जयतु जयतु मन्त्रो जन्मसाफल्यमन्त्रः
जननमरणक्लेशविच्छेदमन्त्रः
सकलनिगममन्त्रः सर्वशास्त्रैकमन्त्रो
रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥
कल्याणानां निदानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षॊः सपदि परपदप्राप्तये प्रस्थितस्य।
विश्राम स्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवति भवतां भूतये राम नाम॥