SAPTARSHI RAMAYANAM

सत्पर्षिरमायणम्
बालकाण्डम्
काश्यपः
        जातः श्रीरघुनायको दशरथान्मुन्याश्रयस्ताटकां
        हत्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् ।
        भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो
        जित्वार्द्धाध्वनि भार्गवं पुनरगात्सीतासमेतः पुरीम् ॥
 अयोध्याकाण्डम्
अत्रिः
       दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी
       श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ ।
       भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता-
       दित्याकर्ण्य स चोत्तरं न हि ददौ दुःखेन मूर्च्छां गतः॥
आरण्यकाण्डम्
भरद्वाजः
      
      श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो
      गंगां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन्।
      कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके
      प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥
           किष्किन्धाकाण्डम्
         विश्वामित्रः
       गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां
       छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन्।
       हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं
       तारारत्नमवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥
          
सुन्दरकाण्डम्
गौतमः
दूतो दाशरथेः सलीलमुदधिं तीर्त्त्वा हनूमान् महान्
दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वांगुलेर्मुद्रिकाम्।
अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः
श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥
  युद्धकाण्डम्
  जमदग्निः
रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो
लङ्कां प्राप्य सकुंभकर्णतनुजं हत्वा रणे रावणम्।
त्सयाम् न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका-
रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥
              उत्तरकाण्डम्
  वसिष्ठः
श्रीरामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन्
कृत्वा राज्यमथानुजैश्च सुचिरं भूरिस्वधर्मान्वितौ ।
पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले
सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवं ॥   
  सर्वे ऋषयः
श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान्
ये शृण्वन्ति पठन्ति च प्रतिदिनं  तेऽघौघविध्वंसिनः।
श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगांश्चिरं
भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्ल्लभन्ते पदम्॥
       

Author Socials Follow me