TRIPURASUNDARI MANASA PUJA STOTRAM

     त्रिपुरसुन्दरीमानसपूजास्तोत्रम्
        (श्रीमच्छंकरभगवत्पादविरचितम्)
मम न भजनशक्तिः पादयोस्ते न भक्ति-
र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः
इति मनसि सदाऽहं चिन्तयन्नाद्यशक्ते
रुचिरवचनपुष्पैरर्चनं संचिनोमि     ॥१॥
व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः
पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।
आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल-
व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव॥२॥
तस्मिन्नुज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।
उच्चैःशृंगनिषण्णदिव्यवनिताबृन्दाननप्रोल्लसत्
गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥
जातीचंपकपाटलादिसुमनःसौरभ्यसंभावितं
ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम्।
आविर्भूतसुगन्धिचन्दनवनं दिष्टिप्रियं नन्दनं
चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥
परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः।
अलिशुकपिकराजीकूजितैः श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः॥।५॥
रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते
क्षॊणीमण्डलहेमहारविलसत्संसारपारप्रद
प्रोद्यत्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥६॥
उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥७॥
क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम्।
मध्यालंबिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥८॥
उत्तुंगालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशंकया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
र्वल्गावल्गितहस्तमस्तशिखरं  कष्टैरितः प्राप्यते ॥९॥
मणिसदनसमुद्यत् कान्तिधारानुरक्ते
वियति चरमसन्ध्याशङ्किनो भानुरथ्याः।
शिथिलितगतकुप्यत्सूतहुंकारनादैः
कथमपि मणिगेहादुच्चकैरुच्चलन्ति  ॥१०॥
भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥११॥
विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-
र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।
विरिञ्चिविष्णुशंकरादिभिर्मुदा तवांबिके
प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥१२॥
ध्वनन्मृदंगकाहलः प्रगीतकिन्नरीगणः
प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः ।
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो
मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥१३॥
प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-
र्बहिःस्थितामरावलीविधीयमानभक्तिभिः।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः
सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥१४॥
सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः ।
असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो
मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥१५॥
इन्द्रादींश्च दिगीश्वरान् सहपरीवारानथो सायुधा-
न्योषिद्रूपधरान् स्वदिक्षु निहितान् संचिन्त्य हृत्पंकजे ।
शंखे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मरन्
कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥
गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-
र्द्वाराभ्यासकृतस्थितीरिहसरस्वत्यादिकाः पूजयन्।
द्वारेनौमि मदनोन्मदं सुरगणाधीशं मदनोन्मदां
मातंगीमसितांबरां परिलसन्मुक्ताविभूषां भजे ॥१७॥
कस्तूरिकाश्यामलकोमलाङ्गीं
कादंबरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां
मातंगकन्यां मनसा स्मरामि ॥१८॥
विकीर्णचिकुरोत्करे विगलितांबराडंबरे
मदाकलितलोचने विमलभूषणोद्भासिनि।
तिरस्करणि तावकं चरणपंकजं चिन्तयन्
करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥१९॥
प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः।
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणीः स्तुवे त्वदीय दूतिकाः ॥२०॥
स्फूर्जन्नव्ययवाङ्कुरोपलसिता भोगैः पुरः स्थापितै-
र्दीपोद्भासिशरावशोभितमुखैः कुंभैर्नवैः शोभिना।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥२१॥
आस्तीर्णारुणकंबलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्विमानोत्तमं  ।
धूपोद्गारिसुगन्धिसंभ्रममिलद्भृंगावलीगुंजितम्
कल्य़ाणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥२२॥
कनकरचिते पञ्चप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेतांबरास्तरणोत्तमे ।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥२३॥
सर्वांगस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
जृंभामञ्जुमुखांबुजां मधुमदव्याघूर्णदक्षित्रयाम् ।
सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा
संपश्यन् परदेवतां परमहो मन्ये कृतार्थं जनुः ॥२४॥
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृंभिते
भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥२५॥
पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
सौधीभिर्मधुपर्कमंब मधुरं धाराभिरास्वादय ।
तोयेनाचमनं विधेहि शुचिना गांगेन मत्कल्पितं
साष्टांगं प्रणिपातमीशदेयिते दृष्ट्या कृतार्थी कुरु ।२६॥
मातः पश्य मुखांबुजं सुविमले दत्ते मया दर्पणे
देवि स्वीकुरु दन्तधावनमिदं गंगाजलेनान्वितम्।
सुप्रक्षालितमाननं विरचयन् स्निग्धांबरप्रोञ्छनं
द्रागंगीकुरु तत्वमंब मधुरं तांबूलमास्वादय ॥२७॥
निधेहि मणिपादुकोपरि पदांबुजं मज्जना-
लयं व्रज शनैः सखीकृतकरांबुजालंबनम् ।
महेशि करुणानिधे  तव दृगन्तपातोत्सुकान्
विलोकय मनागमूनुभयसंस्थितान् दैवतान् ॥२८॥
हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितं
सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥२९॥
कनककलशजालस्फाटिकस्नानपीठा-
द्युपकरणविशालं गन्धमत्तालिमालम् ।
स्फुरदरुणवितानं मञ्जुगन्धर्वगानं
परमशिवमहेले मज्जनागारमेहि ॥३०॥
पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्राननाः
रत्नस्वर्णविनिर्मिताः परिलसत् सूक्ष्मांबरप्रावृताः ।
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः॥३१॥
तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-
र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयांबरा ।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-
क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥३२॥
अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं
काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।
गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते
नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥३३॥
कृतपरिकरबन्धास्तुंगपीनस्तनाढ्या
मणिनिवहनिबद्धा हेमकुंभीर्दधानाः ।
सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः
सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥३४॥
उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि।
पुष्पांभोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः
स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदंगीकुरु ॥३५॥
प्रत्यंगं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं
कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितं
आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
भक्तत्राणपरे महेशगृहिणि स्नानांबरं मुच्यताम् ॥३६॥
मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभासुरम्।
नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥३७॥
विलुलितचिकुरेण च्छादितांसप्रदेशे
मणिनिकरविराजत्पादुकान्यस्तपादे ।
सुललितमवलंब्य द्राक्सखीमंसदेशे
गिरिशगृहिणि भूषामण्डपाय प्रयाहि ॥३८॥
लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-
समुल्लसितकान्तिभिः कलितशक्रचापव्रजे ।
महाभरणमण्डपे निहितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥३९॥
स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं
सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम्।
मुक्ताभिर्ग्रथितालकां मणिचितैर्सौवर्णसूत्रैः स्फुटं
प्रान्ते मौक्तिकगुच्छकापलतिकां ग्रथ्नामि वेणीमिमाम् ॥४०॥
विलंबिवेणीभुजगोत्तमांग-
स्फुरन्मणिभ्रान्तिमुपानयन्तं
स्वरोचिषोल्लासितकेशपाशं
महेशि चूडामणिमर्पयामि ॥४१॥
त्वामाश्रयद्भिः कबरीतमिस्रै-
र्बन्दीकृतं द्रागिव भानुबिम्बम् ।
मृडानि चूडामणिमादधानं
वन्दामहे तावकमुत्तमांगम्॥४२॥   
स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
विलंबिमौक्तिकच्छटाविराजितं समन्ततः।
निबद्धलक्षचक्षुषा भवेन भूरि भावितं
समर्पयामि भास्वरं भवानि फालभूषणम् ॥४३॥
मीनांभोरुहखंजरीटसुषमाविस्तारविस्मारके
कुर्वाणे किल कामवैरिमनसः कन्दर्पबाणप्रभां ।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगंभोरुहे
देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥४४॥
मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधःकुर्वतीम् ।
उत्सिक्ताधरबिंबकान्तिविसरैर्भौमीभवन्मौक्तिकां
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥४५॥
उडुकृतपरिवेषस्पर्धया शीतभानो-
रिव विरचितदेहद्वन्द्वमादित्यबिम्बम्।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम्॥४६॥
मरकतवरपद्मरागहीरो-
त्थितगुलिकात्रितयावनद्धमध्यम्।
विततविमलमौक्तिकं च कण्ठा-
भरणमिदं गिरिजे समर्पयामि ॥४७॥
नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- 
व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृतां
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-
व्रातामंब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥४८॥
अन्योन्यं प्लावयन्ती सततपरिलसत्कान्तिकल्लोलजालैः
कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी  ।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-
र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां न: ॥४९॥
करसरसिजनाले विस्फुरत्कान्तिजाले
विलसदमलशोभे चञ्चदीशाक्षिलोभे।
विविधमणिमयूखोद्भासितं देवि दुर्गे
कनककटकयुग्मं बाहुयुग्मे निधेहि ॥५०॥
व्यालंबमानसितपट्टकगुच्छशोभि
स्फूर्जन्मणीघटितहारविरोचमानम्।
मातर्महशमहिले तव बाहुमूले
केयूरकद्वयमिदं विनिवेशयामि ॥५१॥
विततनिजमयूखैर्निर्मितामिन्द्रनीलैः
जितकमलनालालीनमत्तालिमालां
मणिगणखचिताभ्यां कंकणाभ्यामुपेतां
कलय वलयराजीं हस्तमूले महेशि ॥५२॥
नीलपट्टमृदुगुच्छशोभिता-
बद्धनैकमणिजालमञ्जुलां ।
अर्पयामि वलयात्पुरःसरे
विस्फुरत्कनकतैतृपालिकाम् ॥५३॥
आलवालमिव पुष्पधन्वना
बालविद्रुमलतासु निर्मितं ।
अंगुलीषुविनिधीयतां शनै-
रंगुलीयकमिदं मदर्पितम् ॥५४॥
विजितहरमनोभूमत्तमातंगकुंभ-
स्थलविलुलितकूजत्किङ्किणी जालतुल्याम्
अविरलकलनादैरीशचेतो हरन्तीं
विविधमणिनिबद्धां मेखलामर्पयामि ॥५५॥
व्यालंबमानवरमौक्तिकगुच्छशोभि
विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेम्ना विनिर्मितमनेकमणिप्रबन्धं
नीवीनिबन्धनगुणं विनिवेदयामि ॥५६॥
विनिहतनवलाक्षापङ्कबालातपौघे
मरकतमणिराजी मञ्जुमञीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥५७॥
निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
कलक्वणितमञ्जुलां गिरिशचित्तसंमोहिनीम्।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां
निधेहि पदपंकजे कनकघुङ्घुरूमंबिके ॥५८॥
विस्फुरत्सहजरागरञ्जिते
शिञ्जितेन कलितां सखीजनैः ।
पद्मरागमणिनूपुरद्वयी-
मर्पयामि तव पादपंकजे ॥५९॥
पदांबुजमुपासितुं परिगतेन शीतांशुना
कृतां तनुपरंपरामिव दिनान्तरागारुणाम्।
महेशि नवयावकद्रवेण शोणिकृतां
नमामि नखमण्डलीं चरणपंकजस्थां तव ॥६०॥
आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-
र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्य धूपैः
उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां
चञ्चत्कल्हारमालां परशिवरसिके कण्ठपीठेऽर्पयामि ॥६१॥
गृहाण परमामृतं कनकपात्रसंस्थापितं
समर्पयमुखांबुजे विमलवीटिकामंबिके ।
विलोकय मुखांबुजं मुकुरमण्डले विमले
निधेहि मणिपादुकोपरि पदांबुजं सुन्दरि ॥६२॥
आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
कूजन्मञ्जुमरालमञ्जुलगतिप्रोल्लासिभूषांबरा ।
आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा
मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ।६३॥
चलन्त्यामंबायां प्रचलति समस्ते परिजने
सवेगं संयाते कनकलतिकालंकृतिभरे ।
समन्तादुत्तालस्फुरितपदसंपातजनितै-
र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ॥६४॥
चञ्चद्वेत्रकराभिरंगविलसद्भूषांबराभिः पुरो-
यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते।
रुद्धे निर्ज्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं
वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥६५॥
वेधाः पादतले पतत्ययमसौ विष्णुर्नमन्यग्रतः
शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती
दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै  मम॥६६॥
मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया
नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् ।
वेगादक्षिपथं गतान् सुरगणानालोकयन्ती शनै
र्दित्सन्ती चरणांबुजं पथि जगत् पायान्महेशप्रिया ॥६७॥
अग्रे केचन पार्श्वयो कतिपये पृष्ठे परे प्रस्थिता
आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे।
संमर्द्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः
कुर्वाणाः कतिचित्सुराः गिरिसुते दृक्पातमिच्छन्ति ते ॥६८॥
अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-
रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः।
कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्यांगना
गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ॥६९॥
कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-
देकस्मैभवनिःस्पृहाय परमानन्दस्वरूपां गतिं ।
अन्यस्मैविषयानुरक्तमनसे दीनाय दुःखापहं
द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीं ॥७०॥ 
नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने
मन्दं गच्छति सन्निधौ सविनयात्सोत्कण्ठमोघत्रये ।
नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलम्
व्याचक्षाणमुदग्रकान्ति कलये यत्किञ्चिदाद्यं महः ॥७१॥
तव दहनसदृक्षैरीक्षणैरेवचक्षु-
र्निखिलपशुजनानां भीषयद्भीषणास्यं।
कृतवसति परेशप्रेयसि द्वारि नित्यं
शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि॥७२॥
कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां
रत्नस्तंभनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम्।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकां ॥७३॥
स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं
ननारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनं
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं
नित्यानन्दनिदानमम्बसततं वन्दे च सिंहासनम् ॥७४॥
वदद्भिरभितो मुदा जयजयेति बृंदारकैः
कृताञ्जलिपरंपरा विदधती कृतार्था दृशा।
अमन्दमणिमण्डलीखचितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ दाक्षायणि॥७५॥
कर्पूरादिकवस्तुजालमखिलं सौवर्णभृङ्गारकं
तांबूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम्।
विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित-
स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥७६॥
त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः
स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम्।
मुहुरपि च विधूते चामरग्राहिणीभिः
सितकरकरशुभ्रे चामरे चालयामि ॥७७॥
प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं
चञ्चन्महामणिविचित्रितहेमदण्डम्।
उद्यत्सहस्रकरमण्डलचारु हेम-
च्छत्रं महेशमहिले विनिवेशयामि ॥७८॥
उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-
शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि ।
दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-
व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥७९॥
संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां
पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा।
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिधाः
श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥८०॥
आधारशक्त्यादिकमाकलय्य
मध्ये समस्ताधिकयोगिनीं च ।
मित्रेशनाथादिकमत्र नाथ-
चतुष्टयं शैलसुते नतोऽस्मि ॥८१॥
त्रिपुरासुधार्णवासन-
मारभ्य त्रिपुरमालिनीं यावत्
आवरणाष्टकसंस्थित-
मासनषट्कं नमामि परमेशि ॥८२॥
ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं
वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम्।
नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च संपूजय-
न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥८३॥
उड्याणजालन्धर कामरूप-
पीठानिमान् पूर्णगिरिप्रसक्तान् ।
त्रिकोणदक्षाग्रिमसव्यभाग-
मध्यस्थितान् सिद्धिकरान्नमामि ॥८४॥
लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-
स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः।
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-
नेतांश्चक्रबहिःस्थितान् सुरगणान्वन्दामहे सादरम् ॥८५॥
तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम्।
रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
नित्याषोडशकं नमामि  लसितं चक्रात्मनोरन्तरे ॥८६॥
हृदिभावितदैवतं प्रयत्ना-
द्युपदेशानुगृहीतभक्तसंघम्।
स्वगुरुक्रमसंज्ञचक्रराज-
स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥८७॥
हृदयमथ शिरः शिखाखिलाद्ये
कवचमथो नयनत्रयं च देवि ।
मुनिजनपरिचिन्तितं तथास्त्रं
स्फुरतु सदा हृदये षटङ्कमेतत् ॥८८॥
त्रैलोक्यमोहनमिति प्रथिते तु चक्रे
चञ्चद्विभूषणगणत्रिपुराधिवासे ।
रेखात्रये स्थितवतीरणिमादिसिद्धी-
र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥८९॥
सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते
विस्फूर्जत्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः।
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्यांबरा
योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ॥९०॥
महेशि वसुभिर्दलैर्लसत् सर्वसंक्षोभणे
विभूषणगणस्फुरत् त्रिपुरसुन्दरीसद्मनि।
अनंगकुसुमादयो विविधभूषणोद्भासिता
दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥९१॥
लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे
शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।
स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी
मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥९२॥
बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः।
कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥९३॥
अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः।
नानारत्नविभूषणं मणिगणभ्राजिष्णुदिव्यांबरं
सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् ॥९४॥
सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते
रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ॥९५॥
चूताशोकविकासिकेतकरजः प्रोद्भासिनीलांबुज-
प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।
रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं
वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥९६॥
त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे
युते त्रिपुरयांबया स्थितवती च कामेश्वरी।
तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी
करोतु भगमालिनी स्फुरतु मामके चेतसि ॥९७॥
सर्वानन्दमये समस्तजगतामाकांक्षिते बैन्दवे
भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी।
आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषांबरा
विस्फूर्ज्जद्वदना परापररहः सा पातु मं योगिनी ॥९८॥
उल्लसत्कनककान्तिभासुरं
सौरभस्फुरणवासितांबरं ।
दूरतः परिहृतं मधुव्रतै
रर्पयामि तव देवि चम्पकम् ॥९९॥
वैरमुद्धतमपास्य शंभुना
मस्तके विनिहितं कलाच्छलात् ।
गन्धलुब्धमधुपाश्रितं सदा
केतकीकुसुममर्पयामि ते ॥१००॥
चूर्णीकृतं द्रागिव पद्मजेन
त्वदाननस्पर्धिसुधांशुबिम्बम्।
समर्पयामि स्फुटमञ्जलिस्थं
विकासिजातीकुसुमोत्करं ते ॥१०१॥
अगरुबहलधूपाजस्रसौरभ्यरम्यां
मरकतमणिराजीराजिहारिस्रगाभ्याम्।
दिशि विदिशि विसर्पद्गण्डलुब्धालिमालां
वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥१०२॥
ईंकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
त्रैलोक्ये गुरुगम्यमेतदखिलं हार्द्दं च रेखात्मकं।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
न्नानन्दांबुधिमज्जने प्रलभतामानन्दथुं सज्जनः ॥१०३॥
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम्।
रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥
जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः ।
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथक्
पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥१०५॥
शिंबीसुरणशाकबिंबबृहतीकूष्माण्डकोशातकी-
वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना
संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-
न्यग्रे ते विनिवेशयामि गिरिजे सौवर्णपात्रव्रजे ॥१०६॥
निंबूकार्द्रकचूतकन्दकदली कौशातकीकर्कटी
धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान् पातये
संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ।१०७॥
सितयाञ्चितलड्डुकव्रजान्
मृदुपूपान्मृदुलाश्च पूरिकाः
परमान्नमिदं च पार्वति
प्रणयेन प्रतिपादयामि ते ॥१०८॥
दुग्धमेतदनले सुसाधितं
चन्द्रमण्डलनिभं तथा दधि।
फाणितं शिखरिणीं सितासितां
सर्वमंब विनिवेदयामि ते ॥१०९॥
अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं
ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं
शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥११०॥
वामेन स्वर्णपात्रीमनुपदपरमान्नेन पूर्णां दधाना-
मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीं
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकांगीं
तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥१११॥
पंक्त्योपविष्टान् परितस्तु चक्रं
शक्त्या स्वयालिंगितवामभागान्
सर्वोपचारैः परिपूज्य भक्त्या
तवांबिके पारिषदान्नमामि ॥११२॥
परमामृतमत्तसुन्दरी-
गणमध्यस्थितमर्कभासुरम्  ।
परमामृतघूर्णितेक्षणं
किमपि ज्योतिरुपास्महे परम् ॥११३॥
दृश्यते तव मुखांबुजं शिवे
श्रूयते स्फुटमनाहतध्वनिः ।
अर्चने तव गिरामगोचरे
न प्रयाति विषयान्तरं मनः ॥११४॥
त्वन्मुखांबुजविलोकनोल्लसत्-
प्रेमनिश्चलविलोचनद्वयीं
उन्मनीमुपगतां सभामिमां
भावयामि परमेशि तावकीम् ॥११५॥
चक्षुः पश्यतु नेह किञ्चन परं घ्राणं न वा जिघ्रतु
श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालंबताम् ।
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते
नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥११६॥
यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम्।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो
यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥११७॥
गणाधिनाथं वटुकं च योगिनीः
क्षेत्राधिनाथं च विदिक्चतुष्टये।
सर्वोपचारैः परिपूज्य भक्तितो
निवेदयामो बलिमुक्तयुक्तिभिः ॥११८॥
वीणामुपान्ते खलु वादयन्त्यै
निवेद्य शेषं खलु शेषिकायै
सौवर्णभृंगारविनिर्गतेन
जलेन शुद्धाचमनं विधेहि ॥११९॥
तांबूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-
जातीपूगलवंगचूर्णखदिरैर्भक्त्या समुल्लासितम्।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं  सौवर्णपात्रेस्थितै-
र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकम् गृह्यताम् ॥१२०॥
काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
रंभा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं
नित्यानन्दसुधांबुधिं तव मुखं पश्यन्ति हृष्यन्ति च ॥१२१॥
तांबूलोल्लासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-
श्चक्रस्थैः शक्तिसंघैः परिहृतविषयासंगमाकर्ण्यमानम् ।
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-
र्वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥१२२॥
अर्चाविधौ ज्ञानलवोऽपि दूरे
दूरे तदापादकवस्तुजातम् ।
प्रदक्षिणिकृत्य ततोऽर्चनं ते
पञ्चोपचारात्मकमर्पयामि ॥१२३॥
यथेप्सितमनोगतप्रकटितोपचारार्चितां
निजावरणदेवतागणवृतां सुरेशस्थिताम्।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टांगकै-
र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥१२४॥
विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु
चित्तं त्वत्पदभावने व्यभिचरेत् दृग्वाक्च मे जातु चे-
त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥१२५॥
क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम्।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥१२६॥
नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया।
निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥

 

Author Socials Follow me