VENKATESHA MANGALASTOTRAM

श्रीवेङ्कटेशमङ्गलस्तोत्रम्
श्रियः कान्ताय
कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय
श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे
चक्षुषे सर्वलोकानां
वेङ्कटेशाय मङ्गलम् ॥ २ ॥
श्रीवेङ्कटाद्रिशृङ्गाय
मङ्गलाभराणाङ्घ्रये ।
मङ्गलानां निवासाय
वेङ्कटेशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा
सर्वचेतसाम् ।
सदा सम्मोहनायास्तु
वेङ्कटेशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय
सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने
श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥
स्वतः सर्वविदे
सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय
वेङ्कटेशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणे
पूर्णकामाय परमात्मने ।
प्रपन्नपरतत्वाय
वेङ्कटेशाय मङ्गलम् ॥ ७ ॥
अकालतत्वविश्रान्तावात्मानमनुपश्यताम्
अतृप्तामृतरूपाय
वेङ्कटेशाय मङ्गलम् ॥ ८ ॥
प्रायः स्वचरणौ
पुंसां शरण्यत्वेन पाणिना ।
कृपया दर्शयते
श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥
दयामृततरङ्गिण्याः
तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चते
विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥
स्रग्भूषाम्बरहेतीनां
सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु
वेङ्कटेशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठविरक्ताय
स्वामिपुष्करणीतटे ।
रमया रममाणाय
वेङ्कटेशाय मङ्गलम् ॥ १२ ॥
श्रीमद् सुन्दरजामातृमुनिमानसवासिने
सर्वलोकनिवासाय
श्रीनिवासाय मङ्गलम्  ॥ १३ ॥
नमः श्रीवेङ्कटेशाय
शुद्धज्ञानस्वरूपिणे ।
वासुदेवाय शान्ताय
श्रीनिवासाय मङ्गलम् ॥ १४ ॥
       

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.