GOVINDA PANCHAVIMSHATI STOTRAM

गोविन्दपञ्चविंशतिस्तोत्रम्

  (ब्रह्मसंहितान्तर्गतम्)

ईश्वरः परमः कृष्णः

सच्चिदानन्दविग्रहः।

अनादिरादिर्गोविन्दः

सर्वकारणकारणम् ॥१॥

चिन्तामणिप्रकरसद्मसु  कल्पवृक्ष-

लक्षावृतेषु  सुरभीरभिपालयन्तम् ।

लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं

गोविन्दमादिपुरुषं तमहं भजामि ॥२॥

वेणुं क्वणन्तमरविन्ददलायताक्षं

बर्हावतंसमसितांबुदसुन्दरांगम्।

कन्दर्पकोटिकमनीयविशेषशोभं

गोविन्दमादिपुरुषं तमहं भजामि ॥३॥

आलोलचन्द्रकलसद्वनमाल्यवंशी-

रत्नाङ्गदं प्रणयकेलिकलाविलासम्।

श्यामं त्रिभङ्गललितं नियतप्रकाशं

गोविन्दमादिपुरुषं तमहं भजामि ॥४॥

अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति

पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।

आनन्दचिन्मयसदुज्ज्वलविग्रहस्य

गोविन्दमादिपुरुषं तमहं भजामि ॥५॥

अद्वैतमच्युतमनादिमनन्तरूपं

आद्यं पुराणपुरुषं नवयौवनं च।

वेदेषु दुर्लभमदुर्लभमात्मभक्तौ

गोविन्दमादिपुरुषं तमहं भजामि ॥६॥

पन्थास्तु कोटिशतवत्सरसंप्रगम्यो

वायोरथापि मनसो मुनिपुङ्गवानाम् ।

सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्य तत्त्वे

गोविन्दमादिपुरुषं तमहं भजामि ॥७॥

एकोऽप्यसौ रचयितुं जगदण्डकोटिं

यच्छक्तिरस्ति जगदण्डचये यदन्तः।

अण्डान्तरस्थपरमाणुचयान्तरस्थं

गोविन्दमादिपुरुषं तमहं भजामि ॥८॥

यद्भावभावितधियो मनुजास्तथैव

संप्राप्यरूपमहिमासनयानभूषाः।

सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति

गोविन्दमादिपुरुषं तमहं भजामि ॥९॥

आनन्दचिन्मयरसप्रतिभाविताभि-

स्ताभिर्य एव निजरूपतया कलाभिः

गोलोक एव निवसत्यखिलात्मभूतो

गोविन्दमादिपुरुषं तमहं भजामि ॥१०॥

प्रेमाञ्जनच्छुरितभक्तिविलोचनेन

सन्तः सदैव हृदयेषु विलोकयन्ति

यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं

गोविन्दमादिपुरुषं तमहं भजामि ॥११॥

रामादि मूर्तिषु कलानियमेन तिष्ठन्

नानावतारमकरोद्भुवनेषु किन्तु ।

कृष्णः स्वयं समभवत् परमः पुमान् यो

गोविन्दमादिपुरुषं तमहं भजामि ॥१२॥

यस्य प्रभा प्रभवतो जगदण्डकोटि-

कोटिष्वशेषवसुधादिविभूतिभिन्नम् ।

तद्ब्रह्म निष्कलमनन्तमशेषभूतं

गोविन्दमादिपुरुषं तमहं भजामि ॥१३॥

माया हि यस्य जगदण्डशतानि सूते

त्रैगुण्यतद्विषयवेदवितायमाना

सत्त्वावलंबिपरसत्त्वविशुद्धसत्त्वं

गोविन्दमादिपुरुषं तमहं भजामि ॥१४॥

आनन्दचिन्मयरसात्मकतया मनःसु

यः प्राणिनां प्रतिफलं स्मरतामुपेत्य।

लीलायितेन भुवनानि जयत्यजस्रं

गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥

सृष्टिस्थितिप्रलयसाधनशक्तिरेका

छायेव यस्य भुवनानि बिभर्ति दुर्गा।

इच्छानुरूपमपि यस्य च चेष्टते सा

गोविन्दमादिपुरुषं तमहं भजामि ॥१५॥

क्षीरं यथा दधिविकारविशेषयोगात्

सञ्जायते नहि ततः पृथगस्ति हेतोः।

यत्सम्भूतमपि तथा समुपैति कार्याद्

गोविन्दमादिपुरुषं तमहं भजामि ॥१६॥

यः कारणार्णवजले भजति स्म योग-

निद्रामनन्तजगदण्डसरोमकूपः

आधारशक्तिमवलंब्य परं स्वमूर्तिं

गोविन्दमादिपुरुषं तमहं भजामि ॥१७॥

यस्यैकनिःश्वसितकालमथावलंब्य

जीवन्ति लोमविलजा जगदण्डनाथाः।

विष्णुर्महान् स इह यस्य कलाविशेषो

गोविन्दमादिपुरुषं तमहं भजामि ॥१८॥

भास्वान्यथाश्मशकलेषु निजेषु तेजः

स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।

ब्रह्मा य एष जगदण्डविधानकर्ता

गोविन्दमादिपुरुषं तमहं भजामि ॥१९॥

यत्पादपल्लवयुगं विनिधाय कुंभ-

द्वन्द्वे प्रणामसमये स गणाधिराजः।

विघ्नान्विहन्तुमलमस्यजगत्त्रयस्य

गोविन्दमादिपुरुषं तमहं भजामि ॥२०॥

अग्निर्महीगगनमम्बुमरुद्दिशाश्च

कालस्तथात्ममनसीति जगत्त्रयाणि

यस्मात्भवन्ति विभवन्ति विशन्ति यं च

गोविन्दमादिपुरुषं तमहं भजामि ॥२१॥

यच्चक्षुरेष सविता सकलग्रहाणां

राजा समस्तसुरमूर्तिरशेषतेजः

यस्याज्ञया भ्रमति संभृतकालचक्रो

गोविन्दमादिपुरुषं तमहं भजामि ॥२२॥

धर्मोऽथ पापनिचयः श्रुतयस्तपांसि

ब्रह्मादिकीटपटगवादयश्च जीवाः

यद्दत्तमात्रविभवप्रकटप्रभावा

गोविन्दमादिपुरुषं तमहं भजामि ॥२३॥

यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म-

बन्धानुरूपफलभाजनमातनोति।

कर्माणि निर्दहति किन्तु च भक्तिभाजां

गोविन्दमादिपुरुषं तमहं भजामि ॥२४॥

यं क्रोधकामसहजप्रणयादिभीति-

वात्सल्यमोहगुरुगौरवसेव्यभावैः

संचिन्त्य तस्य सदृशीं तनुमापुरेते

गोविन्दमादिपुरुषं तमहं भजामि ॥२५॥


Author Socials Follow me