SRISTOTRARATNAM (YAMUNACHARYAKRUTAM)

                             श्रीस्तोत्ररत्नम्

       (यामुनाचार्यकृतम्)

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्।
स्तोत्रयामास योगीन्द्रः तं वन्दे यामुनाह्वयम् ॥

यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः।

वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

नमो नमो यामुनाय यामुनाय नमो नमः।

नमो नमो यामुनाय यामुनाय नमो नमः॥

             ——

नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥१॥

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-

ज्ञानानुरागमहिमातिशयान्तसीम्ने।

नाथाय नाथमुनयेऽत्र परत्र चापि

नित्यं यदीयचरणौ शरणं मदीयम् ॥२॥

भूयो नमोऽपरिमिताच्युतभक्तितत्त्व-

ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः।

लोकेऽवतीर्णपरमार्थसमग्रभक्ति-

योगाय नाथमुनये यमिनां वराय ॥३॥

तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव-

भोगापवर्गतदुपायगतीरुदारः।

संदर्शयन् निरमिमीत पुराणरत्नं

तस्मै नमो मुनिवराय पराशराय ॥४॥

माता पिता युवतयस्तनया विभूतिः

सर्वं यदेव नियमेन मदन्वयानाम्।

आद्यस्य नः कुलपतेर्वकुलाभिरामं

श्रीमत् तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना॥५॥

यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्

अस्मन्मनोरथपथः सकलं समेति।

स्तोष्यामि नः कुलधनं कुलदैवतं तत्

पादारविन्दमरविन्दविलोचनस्य  ॥६॥

तत्त्वेन यस्य महिमार्णवशीकराणुः

शक्यो न मातुमपि शर्वपितामहाद्यैः।

कर्तुं तदीयमहिमस्तुतिमुद्यताय

मह्यं नमोऽस्तु कवये निरपत्रपाय ॥७॥

यद्वा श्रमावधि यथामति वाऽप्यशक्तः

स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः।

वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः

को मज्जतोरणुकुलाचलयोर्विशेषः ॥८॥

किं चैष शक्त्यतिशयेन न तेऽनुकंप्यः

स्तोताऽपि तु स्तुतिकृतेन परिश्रमेण।

तत्र श्रमस्तु सुलभो मम मन्दबुद्धेः

इत्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥९॥

नावेक्षसे यदि ततो भुवनान्यमूनि

नालं प्रभो भवितुमेव कुतः प्रवृत्तिः

एवं निसर्गसुहृदि त्वयि सर्वजन्तोः

स्वामिन् न चित्रमिदमाश्रितवत्सलत्वम् ॥१०॥

स्वाभाविकानवधिकातिशयेशितृत्वं

नारायण त्वयि न मृष्यति वैदिकः कः।
ब्रह्मा शिवः शतमखः परमः स्वराडिति

एतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥११॥

कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः

कः पुण्डरीकनयनः पुरुषोत्तमः कः ।

कस्यायुतायुतशतैककलांशकांशे

विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥१२॥

वेदापहारगुरुपातकदैत्यपीडा-

द्यापद्विमोचनमहिष्ठफलप्रदानैः।

कोऽन्यः प्रजापशुपती परिपाति कस्य

पादोदकेन स शिवः स्वशिरोधृतेन ॥१३॥

कस्योदरे हरविरिञ्चमुखःप्रपञ्चः

को रक्षतीममजनिष्ट च कस्य नाभेः।

क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः

कः केन वैष परवानिति शक्यशङ्कः ॥१४॥

त्वां शीलरूपचरितैः परमप्रकृष्ट-

सत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः।
प्रख्यातदैवपरमार्थविदां मतैश्च

नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम्॥१५॥

उल्लङ्घितत्रिविधसीमसमातिशायि-

संभावनं तव परिब्रढिमस्वभावम्।

मायाबलेन भवताऽपि निगूह्यमानं

पश्यन्ति केचिदनिशं त्वदन्यभावाः ॥१६॥

यदण्डमण्डान्तरगोचरं च यत्

दशोत्तराण्यावरणानि यानि च।

गुणाः प्रधानं पुरुषः परं पदं

परात्परं ब्रह्म च ते विभूतयः ॥१७॥

वशी वदान्यो गुणवान् ऋजुः शुचिः

मृदुर्दयालुर्मधुरः स्थिरः समः।

कृती कृतज्ञस्त्वमसि स्वभावतः

समस्तकल्याणगुणामृतोदधिः ॥१८॥  

उपर्युपर्यब्जभुवोऽपि पूरुषान्

प्रकल्प्य ते ये शतमित्यनुक्रमात्।

गिरस्त्वदेकैकगुणावधीप्सया

सदा स्थिता नोद्यमतोऽतिशेरते॥१९॥

त्वदाश्रितानां जगदुद्भवस्थिति-

प्रणाशसंसारविमोचनादयः।

भवन्ति लीला विधयश्च वैदिकाः

त्वदीयगंभीरमनोऽनुसारिणः॥२०॥

नमो नमो वाङ्मनसातिभूमये

नमो नमो वाङ्मनसैकभूमये।

नमो नमोऽनन्तमहाविभूतये

नमो नमोऽनन्तदयैकसिन्धवे ॥२१॥

न धर्मनिष्ठोऽस्मि न चात्मवेदी

न भक्तिमान् त्वच्चरणारविन्दे।

अकिञ्चनोऽनन्यगतिः शरण्य

त्वत्पादमूलं शरणं प्रपद्ये ॥२२॥

न निन्दितं कर्म तदस्ति लोके

सहस्रशो यन्न मया व्यधायि।
सोऽहं विपाकावसरे  मुकुन्द

क्रन्दामि संप्रत्यगतिस्तवाग्रे ॥२३॥

निमज्जतोऽनन्तभवार्णवान्तः

चिराय मे कूलमिवाऽसि लब्धः।

त्वयाऽपि लब्धं भगवन्निदानीं

अनुत्तमं पात्रमिदं दयायाः ॥२४॥

अभूतपूर्वं मम भावि किं वा

सर्वं सहे मे सहजं हि दुःखम्।

किं तु त्वदग्रे शरणागतानां

पराभवो नाथ न तेऽनुरूपः ॥२५॥

निरासकस्यापि न तावदुत्सहे

महेश हातुं तव पादपङ्कजम्।

रुषा निरस्तोऽपि शिशुः स्तनन्धयः

न जातु मातुश्चरणौ जिहासति ॥२६॥

तवामृतस्यन्दिनि पादपङ्कजे

निवेशितात्मा कथमन्यदिच्छति।

स्थितेऽरविन्दे मकरन्दनिर्भरे

मधुव्रतो नेक्षुरकं हि वीक्षते ॥२७॥

त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनचित्

यथा तथा वाऽपि सकृत् कृतोऽञ्जलिः।

तदैव मुष्णात्यशुभान्यशेषतः

शुभानि पुष्णाति न जातु हीयते ॥२८॥

उदीर्णसंसारदवाशुशुक्षणिं

क्षणेन निर्वाप्य परां च निर्वृतिम्।

प्रयच्छति त्वच्चरणारुणाम्बुज-

द्वयानुरागामृतसिन्धुशीकरः ॥२९॥

विलासविक्रान्तपरावरालयं

नमस्यदार्तिक्षपणे कृतक्षणम् ।

धनं मदीयं तव पादपङ्कजं
कदा नु साक्षात्करवाणि चक्षुषा ॥३०॥

कदा पुनः शंखरथाङ्गकल्पक-

ध्वजारविन्दाङ्कुशवज्रलाञ्छनम्।

त्रिविक्रम त्वच्चरणांबुजद्वयं

मदीयमूर्धानमलंकरिष्यति ॥३१॥

विराजमानोज्ज्वलपीतवाससं

स्मितातसीसूनसमामलच्छविम्

निमग्ननाभिं तनुमध्यमुन्नतं

विशालवक्षःस्थलशोभिलक्षणम् ॥३२॥

चकासतं ज्याकिणकर्कशैःशुभैः

चतुर्भिराजानुविलंबिभिर्भुजैः

प्रियावतंसोत्पलकर्णभूषण-

श्लथालकाबन्धविमर्दशंसिभिः ॥३३॥

उदग्रपीनांसविलम्बिकुण्डला-

लकावलीबन्धुरकंबुकन्धरम्।

मुखश्रिया न्यक्कृतपूर्णनिर्मला-

मृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥३४॥

प्रबुद्धमुग्धांबुजचारुलोचनं

सविभ्रमभ्रूलतमुज्ज्वलाधरम्।

शुचिस्मितं कोमलगण्डमुन्नसं

ललाटपर्यन्तविलम्बितालकम्॥३५॥

स्फुरत्किरीटाङ्गदहारकण्ठिका-

मणीन्द्रकाञ्चीगुणनूपुरादिभिः।

रथाङ्गशंखासिगदाधनुर्वरैः

लसत्तुलस्या वनमालयोज्ज्वलम् ॥३६॥

चकर्थ यस्या भवनं भुजान्तरं

तव प्रियं धाम यदीयजन्मभूः।

जगत्समस्तं यदपाङ्गसंश्रयं

यदर्थमंभोधिरमन्थ्यबन्धि च ॥३७॥

स्ववैश्वरूप्येण सदाऽनुभूतया-

प्यपूर्ववद्विस्मयमादधानया।

गुणेन रूपेण विलासचेष्टितैः

सदा तवैवोचितया तव श्रिया॥३८॥

तया सहासीनमनन्तभोगिनि

प्रकृष्टविज्ञानबलैकधामनि

फणामणिव्रातमयूखमण्डल-

प्रकाशमानोदरदिव्यधामनि॥३९॥

निवासशय्यासनपादुकांशुको-

पधानवर्षातपवारणादिभिः।

शरीरभेदैस्तव शेषतां गतैः

यथोचितं शेष इतीरिते जनैः ॥४०॥

दासः सखा वाहनमासनं ध्वजः

यस्ते वितानं व्यजनं त्रयीमयः।

उपस्थितं तेन पुरो गरुत्मता

त्वदङ्घ्रिसंमर्दकिणाङ्कशोभिना॥४१॥

त्वदीयभुक्तोज्झितशेषभोजिना

त्वया निसृष्टात्मभरेण यद्यथा।

प्रियेण सेनापतिना न्यवेदि तत्

तथाऽनुजानन्तमुदारवीक्षणैः ॥४२॥

हताखिलक्लेशमलैः स्वभावतः

त्वदानुकूल्यैकरसैस्तवोचितैः।

गृहीततत्तत्परिचारसाधनैः
निषेव्यमाणं सचिवैर्यथोचितम् ॥४३॥

अपूर्वनानारसभावनिर्भर-

प्रबुद्धया मुग्धविदग्धलीलया।

क्षणाणुवत् क्षिप्तपरादिकालया

प्रहर्षयन्तं महिषीं महाभुजम् ॥४४॥

अचिन्त्यदिव्याद्भुतनित्ययौवन-

स्वभावलावण्यमयामृतोदधिम्।

श्रियः श्रियं भक्तजनैकजीवितं

समर्थमापत्सखमर्थिकल्पकम्॥४५॥

भवन्तमेवानुचरन् निरन्तरं

प्रशान्तनिश्शेषमनोरथान्तरः।

कदाऽहमैकान्तिकनित्यकिङ्करः

प्रहर्षयिष्यामि सनाथजीवितः ॥४६॥

धिगशुचिमविनीतं निर्दयं मामलज्जं

परमपुरुष योऽहं योगिवर्याग्रगण्यैः।

विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं

तव परिजनभावं कामये कामवृत्तः ॥४७॥

अपराधसहस्रभाजनं

पतितं भीमभवार्णवोदरे

अगतिं शरणागतं हरे

कृपया केवलमात्मसात्कुरु॥४८॥

अविवेकधनान्धदिङ्मुखे

बहुधा सन्ततदुःखवर्षिणि

भगवन् भवदुर्दिने पथः

स्खलितं मामवलोकयाऽच्युत॥४९॥

न मृषा परमार्थमेव मे

शृणु विज्ञापनमेकमग्रतः।

यदि मे न दयिष्यसे ततः

दयनीयस्तव नाथ दुर्लभः ॥५०॥

तदहं त्वदृते न नाथवान्

मदृते त्वं दयनीयवान् न च।
विधिनिर्मितमेतदन्वयं

भगवन् पालय मा स्म जीहपः॥५१॥

वपुरादिषु योऽपि कोऽपि वा

गुणतोऽसानि यथा तथाविधः।

तदयं तव पादपद्मयोः

अहमद्यैव मया समर्पितः ॥५२॥

मम नाथ यदस्ति योऽस्म्यहं

सकलं तद्धि तवैव माधव

नियतस्वमिति प्रबुद्धधीः

अथवा किं नु समर्पयामि ते ॥५३॥

अवबोधितवानिमां यथा

मयि नित्यां भवदीयतां स्वयम्।

कृपयैवमनन्यभोग्यतां

भगवन् भक्तिमपि प्रयच्छ मे ॥५४॥

तव दास्यसुखैकसङ्गिनां

भवनेष्वस्त्वपि कीटजन्म मे

इतरावसथेषु मा स्म भूत्

अपि मे जन्म चतुर्मुखात्मना ॥५५॥

सकृत्त्वदाकारविलोकनाशया

तृणीकृतानुत्तमभुक्तिमुक्तिभिः।

महात्मभिर्मामवलोक्यतां नय

क्षणेऽपि ते यद्विरहोऽतिदुःसहः ॥५६॥

न देहं न प्राणान् न च सुखमशेषाभिलषितं

न चात्मानं नान्यत् किमपि तव शेषत्वविभवात्।

बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा
विनाशं तत् सत्यं मधुमथन विज्ञापनमिदम् ॥५७॥

दुरन्तस्यानादेरपरिहरणीयस्य महतः

निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि।

दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे

तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥५८॥

अनिच्छन्नप्येवं यदि पुनरिच्छन्निव रज-

स्तमश्छन्नश्छद्मस्तुतिवचनभङ्गीमरचयम्।

तथाऽपीत्थंरूपं वचनमवलंब्यापि कृपया

त्वमेवैवंभूतं  धरणिधर मे शिक्षय मनः ॥५९॥

पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्

त्वमेव त्वं मित्रं गुरुरसि गतिश्चापि जगताम्।

त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं

प्रपन्नश्चैवंसत्यहमपि तवैवास्मि हि भरः ॥६०॥

जनित्वाऽहं वंशे महति जगति ख्यातयशसां

शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम्।

निसर्गादेव त्वच्चरणकमलैकान्तमनसां

अधोऽधः पापात्मा शरणद निमज्जामि तमसि ॥६१॥

अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः

कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः।

नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः

अपारादुत्तीर्णस्तव परिचरेयं तव चरणयोः ॥६२॥

रघुवर यदभूस्त्वं तादृशो वायसस्य

प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण।

प्रतिभवमपराद्धुर्मुग्ध सायुज्यदोऽभूः

वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥६३॥

ननु प्रपन्नः सकृदेवनाथ तवाहमस्मीति च याचमानः।

तवानुकम्प्यः स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥६४॥

अकृत्रिमत्वच्चरणारविन्द-

प्रेमप्रकर्षावधिमात्मवन्तम्।
पितामहं नाथमुनिं विलोक्य

प्रसीद मद्वृत्तमचिन्तयित्वा ॥६५॥ 

 ॥इति श्रीस्तोत्ररत्नम् समाप्तम्॥


Author Socials Follow me

1 Comment on SRISTOTRARATNAM (YAMUNACHARYAKRUTAM)