NARAYANA KAVACHAM

                                 नारायणकवचम्
राजोवाच-
येन गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रैलोक्याः बुभुजे श्रियम्॥१॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकं।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन् मृधे ॥२॥
श्रीशुक उवाच-
वृतः पुरोहितः त्वाष्ट्रो महेन्द्रायानुपृच्छते।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥३॥
धौताङ्घ्रिपाणिराचम्य सपवित्रः उदङ्मुखः।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥४॥
नारायणमयं वर्म सन्नह्येद्भय आगते।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥५॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि।
मुखे शिरस्यानुपूर्वमोङ्कारादीनि विन्यसेत् ॥६॥
ऒम् नमो नारायणायेति विपर्ययमथापि वा।
करन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया  ॥७॥
प्रणवादि यकारान्तमङ्गुल्यङ्गुष्ठपर्वसु।
न्यसेद्धृदय ऒङ्कारं विकारमनुमूर्धनि ॥८॥
षकारन्तु भ्रुवोर्मध्ये णकारं शिखयां न्यसेत्।
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ॥९॥
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेत् बुधः।
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्द्दिशेत् ॥१०॥
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥११॥
ऒं- हरिर्विदध्यान्ममसर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।
दरारिचर्मासिगदेषुचाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥
जलेषु मां रक्षतु मत्स्यमूर्तिः
यादोगणेभ्यो वरुणस्य पाशात्।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥१३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥    
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोत्पातधरो वराहः।
रामोद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणॊऽव्याद्भरताग्रजो माम्॥१५॥
मामुग्रकर्मादखिलात् प्रमादात्
नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः
पायात्  गुणेशः कपिलः कर्मबन्धात्॥१६॥
सनत्कुमारोऽवतु कामदेवात्
हयाननो मां पथि देवहेलनात्।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥१७॥
धन्वन्तरिर्भगवान् पात्वपथ्यात्
द्वन्द्वाद्भयादृषभो निर्ज्जितात्मा।
यज्ञश्च लोकाभवताज्जनान्ताद्
बलोद्गणात् क्रोधवशादहीन्द्रः ॥१८॥
द्वैपायनो भगवानप्रबोधात्
बुद्धस्तु पाषण्डगणात् प्रमादात्।
कल्किः कलेः कालमलात् प्रपातु
धर्मावनायोरुकृतावतारः ॥१९॥
मां केशवो गदया प्रातरव्यात्
गोविन्द आसंगव आत्तवेणुः।
नारयणः प्राह्ण उदात्तशक्ति-
र्माद्ध्यन्दिने विष्णुररीन्द्रपाणिः॥२०॥
देवोऽपराह्ने मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम्।
दोषॆ हृशीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥२१॥
श्रीवत्सधामापररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥२२॥
चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्तात् भगवत्प्रयुक्तम्।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥२३॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्डि निष्पिण्ड्यजितप्रियाऽसि।
कूश्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥२४॥
त्वं यातुधानप्रमथप्रेतमातृ
पिशाचविप्रग्रहघोरदृष्टीन्।
दरेन्द्र विभ्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कंपयन् ॥२५॥
त्वं तिग्मधारासि वरारिसैन्य-
मीशप्रयुक्तो 
मम छिन्धि छिन्धि।
चक्षूंषि चर्मन् शतचन्द्र छादय
द्विषामघोनं हर पापचक्षुषाम् ॥२६॥
यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दंष्ट्रीभ्यो भूतेभ्योंहेभ्य एव च ॥२७॥
सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात्।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ॥२८॥
गरुडो भगवान् स्तोत्रस्तोभच्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥२९॥
स वापद्भ्यो हरेर्नाम रूपयानायुधानि नः।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥३०॥
यदाहि भगवानेव वस्तुतः सदसच्च यत्।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥३१॥
यथैवात्मानुभावानां विकल्परहितः स्वयं
भूषणायुधलिङ्गाख्या धत्ते शक्तिः स्वमायया ॥३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥३३॥
विदिक्षुदिक्षूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयं लोकभयं स्वनेन
स्वतेजसाग्रस्त समस्ततेजाः ॥३४॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम्।
विजेष्यस्यञ्जसा तेन दाशितो सुरयूथपान् ॥३५॥
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा
पदा वा संस्पृशेद्सद्यः साध्वसात् स विमुच्यते ॥३६॥
न कुतश्चित् भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥३७॥
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः
योगधारणया स्वांगं जहौ स मरुधन्वनि ॥३८॥
तस्योपरि विमानेन गन्धर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥३९॥
गगनान्यपतद्सद्यः स विमानोह्यवाक्शिराः
स बालखिल्यवचनादस्थिन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्
श्री शुक उवाच-
यः इदं शृणुयात्काले यो धारयति चादृतः।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्
एतां विद्यामधिगतोविश्वरूपाच्छतक्रतुः
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्ज्जित्य मृधेऽसुरान् ॥४०॥

Author Socials Follow me