CHATUHSHLOKI BHAGAVATAM

            चतुःश्लोकी भागवतम्
श्री भगवानुवाच
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्।
सरहस्यं तदङ्गं च गृहाण गदितं मया॥१॥
यावानहं यथाभावो यद्रूपगुणकर्मकः
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥२॥
अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम्।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥३॥
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि
तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥४॥
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥५॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः
अन्वयव्यतिरेकाभ्यां यत्स्यासर्वत्र सर्वदा ॥६॥
एतन्मतं समातिष्ठ परमेण समाधिना
भवान् कल्पविकल्पेषु  न विमुह्यति कर्हिचित् ॥७॥
(इति श्रीमद्भागवते द्वितीयस्कन्धे
भगवत्ब्रह्मसंवादे

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.