GANGASHTAKAM -3

       
गङ्गाष्टकम्-३   
  (महाकवि कालिदासकृतम्)
नमस्तेऽस्तु गङ्गे त्वदंगप्रसंगा-
द्भुजंगास्तुरंगाः कुरंगाः प्लवंगाः ।
अनंगारिरंगाः ससंगाः शिवांगा
भुजंगाधिपांगीकृतांगा भवन्ति ॥१॥
नमो जह्नुकन्ये न मन्ये त्वदन्यै-
र्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः।
अतोऽहं नतोऽहं सदा गौरतोये
वसिष्ठादिभिर्गीयमानाभिधेये ॥२॥
त्वदामज्जनात् सज्जनो दुर्ज्जनो वा
विमानैस्समानः समानैर्हिमानैः ।
समायाति तस्मिन् पुरारातिलोके
पुरद्वारसंरुद्धदिक्पाललोके ।३॥
स्वरावासदंभोलिदंभोपि रंभा-
परीरंभसंभावनाधीरचेताः।
समाकाङ्क्षते त्वत्तटे वृक्षवाटी-
कुटीरे वसन्नेतुमायुर्द्दिनानि ॥४॥
त्रिलोकस्य भर्तुर्ज्जटाजूटबन्धात्
स्वसीमन्तभागे मनाक् प्रस्खलन्तः।
भवान्या रुषा प्रौढसापत्निभावात्
करेणाहतास्त्वत्तरङ्गा जयन्ति ॥५॥
जलोन्मज्जदैरावतोद्दामकुंभ-
स्फुरत्प्रस्खलत्सान्द्रसिन्दूररागे।
क्वचित् पद्मिनीरेणुभंगप्रसंगे
मनः खेलतां जह्नुकन्यातरङ्गे
॥६॥
भवत्तीरवानीरवातोत्थधूली-
लवस्पर्शतस्तत्क्षणात्क्षीणपापः।
जनोऽयं जगत्पावने त्वत्प्रसादात्
पदे पौरुहूतेऽपि धत्तेऽवहेलाम् ॥७॥
त्रिसन्ध्यानमल्लेखकोटीरनाना-
विधानेकरत्नांशुबिंबप्रभाभिः।
स्फुरत्पादपीठे हठेनाष्टमूर्ते-
र्जटाजूटवासे नताः स्मो
पदं ते ॥८॥
इदं यः पठेदष्टकं जह्नुपुत्र्या-
स्त्रिकालं कृतं कालिदासेन रम्यम्।
समायास्यतीन्द्रादिभिर्गीयमानं
पदं शैशवं शैशवं नो लभेत् सः ॥९॥

Label: Ganga 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.