मत्स्यावतारस्तोत्रम्
(श्रीमद्भागवतम् ८.२४.२७-३०)
सत्यव्रत उवाच:
नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः।
अनुग्रहाय भूतानां धत्ते रूपं जलौकसाम् ॥१॥
नमस्ते पुरुषश्रेष्ठ!
स्थित्युत्पत्त्यप्ययेश्वर ।
स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपनानां मुख्योह्यात्मगतिर्विभो ॥२॥
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः।
ज्ञातुमिच्छाम्यदो रूपं यथार्थं भवता वृतम्॥३॥
न तेऽरविन्दाक्ष पदोपसर्पणं
मृषा भवेत् सर्वसुहृत्प्रियात्मनः।
यथेतरेषां पृथगात्मनां सता-
मदीदृशो यद्वपुरद्भुतं हि नः ॥४॥