ANUSMRITI (FROM THE EPIC MAHABHARATA)

                                                            ANUSMRITI                                                
Anusmriti is considered as
one of the five jewels in the great epic of Mahabharata as mentioned in the
following oft-quoted  verse:
                
                              गीता नामसहस्रं च स्तवराजोऽनुस्मृतिः।
           गजेन्द्रमोक्षणं चैव पञ्चरत्नानि भारते॥
The following are the five jewels in Mahabharata:
Bhagavadgita, the Song Divine, a Universal philosophy
of life and living enabling  the individual
soul transcend the pluralistic universe and experience its complete identity
with the One Ultimate Reality.
      
Vishnu
Shasranama, the thousand names of Vishnu.
Bhishmastavaraajah,
Hymn by Bhishma addressed to Lord Krishna while the former was awaiting Uttaraayana
(when the Sun turns North from the tropic of Capricorn)   to
cast off his mortal body.
Anusmruti, ways to remember the Lord
while one is still in this world and  in
one’s last moments,  as expounded by Lord
Vishnu to Narada Maharshi
Gajendra
Moksham,  the story of the Gajendra’s
release by the Lord from the clutches of an allegator and Gajendra’s hymn
addressed to the Lord.
Given
below is the text of Anusmriti
                                                                                     अनुस्मृतिः
शतानीक उवाच –
महामते महाप्राज्ञ सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥१॥
सततं किं जपेज्जाप्यं विबुधः किमनुस्मरन्।
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ॥२॥
यं च ध्यात्वा द्विजश्रेष्ठ पुरुषो मृत्युमागतः।
परं पदमवाप्नोति तन्मे वद महामुने॥३॥
शौनक उवाच –
इदमेव महाप्राज्ञ पृष्टवांश्च पितामहम्।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
प्रयाणकाले किं चिन्त्यं मुमुक्षोस्तत्त्वचिन्तकैः॥५॥
किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते।
प्राप्नुयां परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥६॥
भीष्म उचाच-
तद्युक्तं स्वहितं सूक्ष्मं प्रश्नमुक्तं त्वयानघ।
शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम्   ॥७॥
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम्।
पुरा नारायणं देवं नारदः परिपृष्टवान् ॥८॥

नारद उवाच –
त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम्।
आहुर्वेद्यं परं धाम ब्रह्माणं कमलोद्भवम् ॥९॥
भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः।
कथं भक्तैर्विचिन्त्योऽसि योगिभिर्मोक्षकाङ्क्षिभिः॥१०॥
किं नु जाप्यं जपेन्नित्यं कल्य उत्थाय मानवः।
कथं जपेत्सदा ध्यायेद् ब्रूहि तत्त्वं सनातनम् ॥११॥
भीष्म उवाच-
श्रुत्वा च तस्य देवर्षेर्वाक्यं वाक्यविशारदः।
प्रोवाच भगवान् विष्णुर्नारदाय च धीमते॥१२॥
श्रीभगवानुवाच-
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम्।
मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम्॥१३॥
यामधीत्य प्रयाणे तु मद्भावायोपपद्यते।
ऊँकारमग्रतः कृत्वा मां नमस्कृत्य नारद॥१४॥
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ।
ऊँ नमो भगवते वासुदेवाय इत्ययम् ॥१५॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः।
पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥१६॥
क्षराक्षरविसृष्टस्तु प्रोच्यते पुरुषोत्तमः।
अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम्॥१७॥
प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्।
लोकनाथं सहस्राक्षमक्षरं परमं पदम् ॥१८॥
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ।
स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् ॥१९॥
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम्।
हिरण्यगर्भममृतं भूगर्भं तमसः परम् ॥२०॥
प्रभोः प्रभुमनाद्यं च प्रपद्ये तं रविप्रभम्।
सहस्रशीर्षकं देवं महर्षेः सत्त्वभावनम् ॥२१॥
प्रपद्ये सूक्ष्ममतुलं वरेण्यमनघं शुचिम् ।
नारायणं पुराणेशं योगावासं सनातनम्॥२२॥
संयोगं सर्वभूतानां प्रपद्ये ध्रुवमीश्वरम्।
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे॥२३॥
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२४॥
यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम्।
चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु ॥२५॥
आभूतसंप्लवे चैव प्रलीने प्रकृतौ महान्।
योऽवतिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२६॥
येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः।
शरण्यः सर्वलोकानां स मे विष्णुः प्रसीदतु ॥२७॥
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम्।
शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु॥२८॥
कार्यं क्रिया च करणं कर्ता हेतुः प्रयोजनम्।
अक्रियाकरणे कार्ये स मे विष्णुः प्रसीदतु ॥२९॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥३०॥
शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः।
रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु ॥३१॥
अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम्।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥३२॥
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥३३॥
योगावास नमस्तुभ्यं सर्वावास वरप्रद।
हिरण्यगर्भ यज्ञाङ्ग पञ्चगर्भ नमोऽस्तु ते ॥३४॥
चतुर्भूत परं धाम लक्ष्म्यावास सदाच्युत।
शब्दादिवासनान्योऽसि वासुदेव प्रधानकृत् ॥३५॥
अजः संगमनः पार्थो ह्यमूर्तिर्विश्वमूर्तिधृक्।
श्रीः कीर्तिः पञ्चकालज्ञो नमस्ते ज्ञानसागर॥३६॥
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परात्परः।
यस्मात् परतरं नास्ति तमस्मि शरणं गतः॥३७॥
चिन्तयन्तो ह्यजं नित्यं ब्रह्मेशानादयः सुराः।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः॥३८॥
जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः॥३९॥
एकांशेन जगत्कृत्स्नमवष्ठभ्य स्थितः प्रभुः।
अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः ॥४०॥
सोमार्काग्निमयं तेजो यश्च तारामयी द्युतिः।
दिवि संजायते तेजः स महात्मा प्रसीदतु ॥४१॥
गुणात्मा निर्गुणश्चान्यो रश्मिवांश्चेतनोह्यजः।
सूक्ष्मः सर्वगतोऽदेहः स महात्मा प्रसीदतु ॥४२॥
अव्यक्तं सदधिष्ठानमचिन्त्यं तमसः परम्।
प्रकृतिः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ॥४३॥
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्गुणैः।
महागुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥४४॥
सांख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥४५॥
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति तमस्मि शरणं गतः॥४६॥
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः
अनन्यभक्ता जानन्ति न पुनर्नारकी जनः ॥४७॥
एकान्तिनो हि निर्द्वन्द्वा निराशाः कर्मकारिणः।
ज्ञानाग्निदग्धकर्माणः त्वां विशन्ति मनस्विनः ॥४८॥
अशरीरं शरीरस्थं समं सर्वेषु देहिषु।
पापपुण्यविनिर्मुक्ता भक्तास्त्वां पर्युपासते ॥४९॥
अव्यक्तबुद्ध्यहंकारमनोभूतेन्द्रियाणि च।
त्वयि तानि न तेषु त्वं तेषु तानि न ते त्वयि॥५०॥
एकत्वाय च नानन्यं ये विदुर्यान्ति ते परम्।
समत्वमिह काङ्क्षेयं भक्त्या वै नान्यचेतसा ॥५१॥
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्।
त्वयि तन्तौ च तत्प्रोतं सूत्रे मणिगणा इव ॥५२॥
स्रष्टा भोक्तासि कूटस्थो ह्यचिन्त्यः सर्वसंज्ञितः।
अकर्ता हेतुरहितः पृथगात्मा व्यवस्थितः ॥५३॥
न मे भूतेषु संयोगः पुनर्भवतु जन्मनि।
अहंकारेण बुध्या वा न मे योगस्त्रिभिर्गुणैः॥५४॥
न मे धर्मो ह्यधर्मो वा नारम्भो जन्म वा  पुनः।
जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वगम् ॥५५॥
विषयैरिन्द्रियैश्चापि न मे भूयः समागमः।
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां यद्धितं देव तत्ते हि त्रिदशेश्वर ॥५६॥
पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् ।
रूपं हुताशने यातु स्पर्शो मे यातु  मारुते।५७॥
श्रोत्रमाकाशमभ्येतु मनो वैकारिकं पुनः
इन्द्रियाणि गुणान्यान्तु स्वेषु स्वेषु च योनिषु॥५८॥
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम्।
वायुराकाशमभ्येतु मनश्चाकाशमेव च ॥५९॥
अहंकारं मनो यातु मोहनं सर्देहिनाम्।
अहंकारस्तथा बुद्धिं  बुद्धिरव्यक्तमेव च ॥६०॥
प्रधानं प्रकृतिं यातु गुणसाम्ये व्यवस्थिते।
विसर्गः सर्वकरणैर्गुणभूतैश्च मे भवेत् ॥६१॥
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ।
निष्कैवल्यपदं देव काङ्क्षेऽहं ते परन्तप॥६२॥
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः।
नमो भगवते तस्मै विष्णवे प्रभविष्णवे ॥६३॥
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः।
त्वामेवाहं स्मरिष्यामि मरणे पर्यवस्थिते ॥६४॥
पूर्वदेहे कृता ये मे व्याधयः प्रविशन्तु माम्।
अर्दयन्तु च मां दुःखान्यृणं मे प्रतिमुच्यताम् ॥६५॥
अनुध्येयोऽसि मे देव न मे जन्म भवेत्पुनः।
अस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति॥६६॥
उपतिष्ठन्तु मां सर्वे व्याधयः पूर्ववञ्चिताः।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥६७॥
अहं भगवतस्तस्य मम वासः सनातनः।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥६८॥
कर्मेन्द्रियाणि संयम्य पञ्चभूतेन्द्रियाणि च।
दशेन्द्रियाणि मनसि अहंकारं तथा मनः ॥६९॥
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत्।
आत्मबुद्धीन्द्रियं पश्येत्  बुद्ध्या बुद्धेः परात्परम्॥७०॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥७१॥
ममायमिति तस्याहं येन सर्वमिदं ततम्।
आत्मन्यात्मनि संयोज्य परात्मानमनुस्मरेत् ॥७२॥
नमो भगवते तस्मै देहिनां परमात्मने ।
नारायणाय भक्ताय एकनिष्ठाय शाश्वते  ॥७३॥
हृदिस्थाय च भूतानां सर्वेषां च महात्मने।
इमामनुस्मृतिं दिव्यां वैष्णवीं पापनाशिनीम्।
स्वपन्विबुद्धश्च पठेद्यत्नेन च समभ्यसेत्॥७४॥
मरणे समनुप्राप्ते यदेकं मामनुस्मरेत्   
अपि पापसमाचारः स याति परमां गतिम् ॥७५॥
यद्यहंकारमाश्रित्य यज्ञदानतपक्रियाः।
कुर्वन् फलमवाप्नोति पुनरावर्तनं च तत्॥७६॥
अभ्यर्चयन् पितॄन्देवान् पठन् जुह्वद्बलिं ददत्।
ज्वलदग्नौ स्मरेद्यो मां लभते परमां गतिम् ॥७७॥
यज्ञो दनं तपश्चैव पावनानि मनीषिणाम्।
यज्ञदानतपस्तस्मात्कुर्याद्रागविवर्जितः ॥७८॥
पौर्णमास्याममावस्यां द्वादश्यां च तथैव च।
श्रावयेच्छ्रद्दधानश्च मद्भक्तश्च विशेषतः   ॥७९॥
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धायान्वितः।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद॥८०॥
किं पुनर्ये भजन्ते मां साधका विधिपूर्वकम्।
श्रद्धावन्तो यतात्मानस्ते यान्ति परमां गतिम् ॥८१॥
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्त्रितः ॥८२॥
अज्ञानां चैव यो ज्ञानं दद्याद्धर्मोपदेशतः।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत् फलम् ॥८३॥
तस्मात्प्रदेयं साधुभ्यो जपं बन्धभयापहम्।
अवाप्स्यसि ततः सिद्धिं प्राप्स्यसे च पदं मम ॥८४॥
अश्वमेधसहस्रैश्च वाजपेयशतैरपि।
नासौ फलमवाप्नोति मद्भक्तैर्यदवाप्यते ॥८५॥
भीष्म उवाच –
हरेः पृष्टं पुरा तेन नारदेन सुरर्षिणा।
यदुवाच ततः शम्भुस्तदुक्तं समनुव्रतः ॥८६॥
श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणोदितम्।
अत्यन्तं भक्तिमान् देव एकान्तित्वमुपेयिवान् ॥८७॥
त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणाधिकम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥८८॥
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक्।
इमं जपित्वा चाप्नोति तद्विष्णोः परमं पदम् ॥८९॥
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९०॥
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥९१॥
ये नृशंसा दुरात्मानः पापाचाररतास्तथा।
तेऽपि यान्ति परां स्थानं नारायणपरायणाः ॥९२॥
अनन्यया मन्दबुद्ध्या प्रतिभाति दुरात्मनाम्।
कुतर्काज्ञानदृष्टीनां विभ्रान्तेन्द्रियवर्त्मनाम् ॥९३॥
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम्।
अन्तकाले जपाद्यान्ति तद्विष्णोः परमं पदम्॥९४॥
आचारहीनोऽपि मुनिप्रवीर 
भक्त्या विहीनोऽपि विनिन्दितोऽपि।
किं तस्य नारायणशब्दमात्रतो
विमुक्तपापो विशतेऽच्युतां गतिम्॥९५॥
कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु संयुगे।
दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ॥९६॥
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥९७॥
नाम्नोऽस्ति यावती शक्तिः पापनिर्हरणे हरेः।
श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम् ॥९८॥
न तावत्पापमस्तीह यावन्नामाहृतं हरेः।
अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा ॥९९॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥१००॥
न वासुदेवात्परमस्ति मङ्गलं
न वासुदेवात्परमस्ति पावनम्।
न वासुदेवात्परमस्ति दैवतं
तं वासुदेवं प्रणमन्न सीदति ॥१०१॥
इमां रहस्यां परमामनुस्मृतिं
योऽधीत्य बुद्धिं लभते च नैष्ठिकीम्।
विहाय पापं विनिमुच्य सङ्कटात्
स वीतरागो विचरेन्महीमिमाम् ॥१०२॥
इति श्रीमहाभारते आनुशासनिके पर्वणि दानधर्मे
श्रीवैष्णोर्दिव्यमनुस्मृतिस्तोत्रं संपूर्णम् ॥

Author Socials Follow me