दीपज्योतिः प्रार्थना
कल्याणानामाकरं कल्मषघ्नं
कम्राकारं कान्तिधूतान्धकारम्।
सन्ध्यालक्ष्मीकण्ठसूत्रैकरत्नं
दीपज्योतिर्मङ्गलं नस्तनोतु॥१॥
सायं भास्करविन्यस्तकिरणात् करभास्कर।
दीपज्योतिर्नमस्तुभ्यं सुप्रभातं कुरुष्व मे ॥२॥
सर्वार्थदायकं सर्वमङ्गलापत्तिरूपकम्।
दृष्टं प्रभातवेलायां दुःस्वप्नादिप्रशामकम् ॥३॥
सर्वमङ्गलजातानां आकरं ज्ञानदायकं।
नमो मङ्गलरूपाय नमो ज्ञानस्वरूपिणे।
नमो मोहविघाताय ज्योतिषे शंभुचक्षुषे ॥४॥