DHARMA SHASTA ASHTAKAM

२.  श्रीधर्मशास्तुः अष्टकम्
 बन्धूकबन्धुररुचिं कलधौतभासं
पञ्चाननं दुरितवञ्चनधीरमीशम् ।
पार्श्वद्वयाकलितशक्तिकटाक्षचारुं
नीलॊत्पलार्चिततनुं प्रणतॊऽस्मि देवम् ॥ १ ॥
कल्याणवेषरुचिरं करुणानिधानं
कन्दर्पकोटिसदृशं कमनीयभासम् ।
कान्ताद्वयाकलितपार्श्वमघारिमाद्यं
शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥ २ ॥
यो वा स्मरेदरुणकुङ्कुमपङ्कशोण-
गुंजापिनद्धकचभारलसत्किरीटम् ।
शास्तारमेव सततं स तु सर्वलोकान्
विस्मापयॆन्निजविलोकनतॊ नितान्तम् ॥ ३ ॥
पञ्चेषुकैटभविरोधितनूभवं तं
आरूढदन्तिपरमादृतमन्दहासम् ।
हस्ताम्बुजैरविरतं निजभक्तहंसे
ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥ ४ ॥
गुंजामणिस्रगुपलक्षितकेशहस्तं
कस्तूरिकातिलकमोहनसर्वलोकम् ।
पञ्चाननाम्बुजलसत् घनकर्णपाशं
शास्तारमम्बुरुहलोचनमीशमीडे  ॥ ५ ॥
पञ्चाननं दशभुजं धृतहेतिदण्डं
धारावतादपि च रूष्णिकमालिकाभिः ।
इच्छानुरूपफलदोऽस्म्यहमेव भक्ते-
ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥ ६ ॥
स्मेराननाद् भगवतः स्मरशासनाच्च
मायागृहीतमहिलावपुषो हरेश्च ।
यः संगमे समुदभूत् जगतीह तादृग्
देवं नतोऽस्मि करुणालयमाश्र येऽहम् ॥ ७ ॥
यस्यैव भक्तजनमत्र गृणन्ति लोके
किं वा मयः किमथवा सुरवर्धकिर्वा ।
वेधाः किमेष ननु शम्बर एष वा किं
इत्येव तं शरणमाशुतरं व्रजामि ॥ ८ ॥
             ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.