KALIDASAKRITA BRAHMASTUTI

ब्रह्मस्तुतिः ( कालिदासकृता )

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥१॥

यदमोघमपामन्तः उप्तं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥२॥

तिसृभिस्त्वमवस्थाभिः महिमानमुदीरयन् ।
प्रलयस्थितिसर्गाणां एकः कारणतां गतः ॥३॥

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्त्तेः सिसृक्षया ।
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥४॥

स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥५॥


जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥६॥

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥७॥

द्रवस्संघात कठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्ततरश्चासि प्राकाम्यं ते विभूतिषु ॥८॥

उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
कर्म यज्ञः फलं स्वर्गः तासां त्वं प्रभवो गिराम् ॥९॥

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्त्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥१०॥

त्वं पितॄणामपि पिता देवानामपि देवता ।
परतोऽपि परश्चासि विधाता वेधसामपि ॥११॥

त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥१२॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on KALIDASAKRITA BRAHMASTUTI

  1. archeangel says:

    Excellent work. Can we get translation in Telugu?

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.