SHANAISHCHARA ASHTAKAM

l
 श्री शनैश्चराष्टकम्
कोणोऽन्तको रौद्रयमोऽथ बभ्रुः
कृष्णः शनिः पिङ्गलमन्दसौरिः।
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्री  रविनन्दनाय ॥१॥
सुरासुराः किंपुरुषोरगेन्द्राः
गन्धर्व विद्याधरपन्नगाश्च
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्री  रविनन्दनाय ॥२॥

नरा
नरेन्द्राः पशवो मृगेन्द्राः
वन्याश्च
ये कीटपतङ्गभृङ्गाः।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्री  रविनन्दनाय ॥३॥
देशाश्च
दुर्गाणि वनानि यत्र
सेनानिवेशाः
पुरपत्तनानि।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्री  रविनन्दनाय ॥४॥
तिलैर्यवैर्माषगुडान्नदानैः
लोहेन नीलांबरदानतो वा।
प्रीणाति मन्त्रैर्निजवासरे च
तस्मै नमः श्री  रविनन्दनाय ॥५॥श्
प्रयागकूले यमुनातटे च
सरस्वतीपुण्यजले गुहायां
यो योगिनां ध्यानगतोऽपि सूक्ष्मः
तस्मै नमः श्री  रविनन्दनाय ॥६
अन्यप्रदेशात् स्वगृहं प्रविष्टः
तदीयवारे स नरः सुखी स्यात्।
गृहाद्गतो यो न पुनः प्रयाति
तस्मै नमः श्री  रविनन्दनाय ॥७॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य
त्राता हरीशो हरते पिनाकी
एकस्त्रिधा ऋग्यजुस्सममूर्तिः
तस्मै नमः श्री  रविनन्दनाय ॥८॥
शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवैश्च।
पठेत् तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते ॥९॥
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः।
एतानि दश नामानि प्रातरुत्थाय यः पठेत्
शनैश्चरकृता पीडा न कदाचिद् भविष्यति ॥१०॥

Click  here to get to  the Master Index from where you can  access  more than 700 posts

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.