मूकाम्बिका अष्टकम्
नमस्ते जगद्धात्रि सद्ब्रह्मरूपे
नमस्ते हरोपेन्द्रधात्रादिवन्द्ये।
नमस्ते प्रपन्नेष्टदानैकदक्षे
नमस्ते महालक्ष्मि कोलापुरेशि॥१॥
विधिः कृत्तिवासा हरिर्विश्वमेतत्
सृजत्यत्तिपातीतियत्तद्प्रसिद्धं
कृपावलोकनादेव ते शक्तिरूपे
नमस्ते महालक्ष्मि कोलापुरेशि ॥२॥
त्वया मायया व्याप्तमेतत्समस्तं
द्रुतं लीयते देवि कुक्षौ हि विश्वम्।
स्थितां बुद्धिरूपेण सर्वत्र जन्तौ
नमस्ते महालक्ष्मि कोलापुरेशि ॥३॥
यया भक्तवर्गा हि लक्ष्यन्त एते
त्वयाऽत्र प्रकामं कृपापूर्णदृष्ट्या ।
अतो गीयसे देवि लक्ष्मीरिति त्वम्
नमस्ते महालक्ष्मि कोलापुरेशि ॥४॥
पुनर्वाक्पटुत्वादिहीना हि मूका
नरास्तैर्निकामं खलु प्रार्थ्यसे यत्
निजेष्टाप्तये तेन मूकाम्बिका त्वं
नमस्ते महालक्ष्मि कोलापुरेशि ॥५॥
यदद्वैतरूपात्परब्रह्मणस्त्वं
समुत्था पुनर्विश्वलीलोद्यमस्था।
तदाहुर्जनास्त्वां च गौरी कुमारी
नमस्ते महालक्ष्मि कोलापुरेशि ॥६॥
हरेशादि देहोत्थतेजोमयप्र-
स्फुरच्चक्रराजाख्यलिङ्गस्वरूपे।
महायोगि कोलर्षि हृत्पद्मगेहे
नमस्ते महालक्ष्मि कोलापुरेशि ॥७॥
नमः शंखचक्राभयाभीष्टहस्ते
नमस्तेऽम्बिके गौरि पद्मासनस्थे।
नमः स्वर्णवर्णे प्रसन्ने शरण्ये
नमस्ते महालक्ष्मि कोलापुरेशि ॥८॥