श्री राघवेन्द्रमङ्गलाष्टकम्
श्रीमद्रामपदारविन्दमधुपः श्रीमध्ववंशाधिपः
सच्छिष्योडुगणोडुपः श्रितजगत्गीर्वाणसत्पादपः।
अत्यर्थं मनसा कृताच्युतजपः पापान्धकारातपः
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥१॥
कर्मन्दीन्द्र सुधीन्द्र सद्गुरुकरांभोजोद्भवः सन्ततं
प्राज्य ध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीपतिः।
सच्छास्त्रादिविदूषकाखिलमृषावादीभकण्ठीरवः
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥२॥
सालङ्कारक काव्य नाटक कला काणाद पातञ्जल-
त्रय्यर्थ स्मृति जैमिनीय कविता सङ्गीत पारङ्गतः।
विप्रक्षत्रविटङ्घ्रिजातमुखरानेक प्रजा सेवितः
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥३॥
रङ्गोत्तुङ्गतरङ्गमङ्गलकर श्रीतुङ्गभद्रातट-
प्रत्यक्स्थ द्विजपुङ्गवालय लसन्मन्त्रालयाख्ये पुरे
नव्येन्द्रोपल नील भव्य करसद्बृन्दावनान्तर्गतः
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥४॥
विद्वद्राजशिरःकिरीटखचितानर्घ्योरुरत्नप्रभा-
रागाघौकहपादुकाद्वयचरः पद्माक्षमालाधरः।
भास्वद्दण्डकमण्डलूज्ज्वलकरो रक्तांबराडम्बरः
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥५॥
यद्बृन्दावन सप्रदक्षिण नमस्काराभिषेकस्तुति-
ध्यानाराधन मृद्विलेपन मुखानेकोपचारान् सदा
कारंकारमभिप्रयान्ति चतुरो लोकाः पुमर्थान् सदा
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥६॥
वेदव्यास मुनीश मध्व यतिराट् टीकार्य वाक्यामृतं
ज्ञात्वाऽद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये।
संख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन् मुदा
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥७॥
श्रीमत् वैष्णव लोक जालक गुरुः श्रीमद् परिव्राट्भरुः
शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूह गोत्र स्वरुः
चेतोऽधीतशिरुस्तथा जितवरुस्सत्सौख्यसंपत्करुः
श्रीमद् सद्गुरु राघवेन्द्र यतिराट् कुर्याद् ध्रुवं मङ्गलम्॥८॥
यस्सन्ध्यास्वनिशं गुरोर्यइतिपतेः सन्मङ्गलस्याष्टकम्।
सद्यः पापहरं स्वसेवि विदुषां भक्त्यैतदाभाषितम्।
भक्त्या वक्ति सुसंपदं शुभपदं दीर्घायुरारोग्यकं
कीर्तिं पुत्रकलत्रबान्धवसुहृन्मूर्तीः प्रयाति ध्रुवम्॥९॥
॥इति श्रीमदप्पणाचार्यकृतं राघवेन्द्रमङ्गलाष्टकम् संपूर्णम्॥