अभिरामी स्तोत्रम्
नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि।
भक्तानां इष्टदे मातः अभिरामि नमोऽस्तु ते ॥१॥
चन्द्रोदयं कृतवति ताटङ्केन महेश्वरि।
आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥२॥
सुधाघटेशश्रीकान्ते शरणागतवत्सले।
आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥३॥
कल्याणि मंगलं देहि जगन्मंगल्कारिणि।
ऐश्वर्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥४॥
चन्द्रमण्डलमध्यस्थे महात्रिपुरसुन्दरि।
श्रीचक्रराजनिलये अभिरामि नमोऽस्तु ते ॥५॥
राजीवलोचने पूर्णे पूर्णचन्द्रविधायिनि।
सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥६॥
सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥६॥
गणेशस्कन्दजननि वेदरूपे धनेश्वरि।
विद्यां च देहि मे कीर्तिं अभिरामि नमोऽस्तु ते ॥७॥
सुवासिनीप्रिये मातः सौमङ्गल्यविवर्धिनि।
माङ्गल्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥८॥
मार्कण्डेयमहाभक्त सुब्रह्मण्यसुपूजिते।
राजराजेश्वरी त्वं हि अभिरामि नमोऽस्तु ते ॥९॥
सान्निध्यं कुरु कल्याणि मम पूजागृहे शुभे।
बिम्बे दीपे तथा पुष्पे हरिद्राकुङ्कुमे मम॥१०॥
अभिराम्याः इदं स्तोत्रं यः पठेत् शक्तिसन्निधौ।
आयुर्बलं यशोवर्चो मङ्गलं च भवेत् सुखम् ॥११॥
[Sri Abhirami is the consort of Amritaghateshwara
(as aspect Lord Siva) at Tirukkadayur, Tamilnadu]