श्रीदक्षिणामूर्ति
पञ्चरत्नस्तोत्रम्
पञ्चरत्नस्तोत्रम्
(अगस्त्यकृतम्)
मत्तरोगशिरोपरिस्थितनृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम्।
भुक्तिमुक्तिफलप्रदं भुवि पद्मजाच्युतपूजितं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥१॥
वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः।
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम्
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥२॥
कृत्तदक्षमखाधिपं वीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम्।
रत्नभुग्गणनाथभृत् भ्रमरार्चिताङ्घ्रिसरोरुहम्
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥३॥
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥३॥
नक्तनादकलाधरं नगजापयोधरमण्डलं
लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम्।
शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥४॥
रक्तनीरजतुल्य पादपयोज सन्मणि नूपुरं
बन्धनत्रय भेद पेशल पङ्कजाक्ष शिलीमुखम्।
हेमशैलशरासनं पृथु शिञ्जिनीकृत तक्षकं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥५॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
पुरातले मयाकृतं निखिलागममूलमहानलम्।
तस्य पुत्रकलत्रमित्रधनानि
सन्तु कृपाबलात्
सन्तु कृपाबलात्
ते महेश्वर शङ्कराखिलविश्वनायक
शाश्वत ॥६॥
शाश्वत ॥६॥